SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ मूलं-८६ ____१२५ सिद्धप्राभृतसूत्रं तदृत्तिं चोपजीव्य मलयगिरिः । सिद्धस्वरूपमेतन्निरवोचच्छिष्यबुद्धिहितः॥ सम्प्रति विशेषान्तरं जिज्ञासुरनन्तरसिद्धस्वरूपं शिष्यः प्रश्नयन्नाह मू.(८७)से किंतं अनंतरसिद्धकेवलनाणं?, अनंतरसिद्ध केवलनाणं पत्ररसविहं पन्नत्तं, तंजहा-तित्थसिद्धा १ अतित्थसिद्धा २ तित्थयरसिद्धा ३ अतित्थयरसिद्धा४ संयबुद्धसिद्धा५ पत्तेयबुद्धसिद्धा ६ बुद्धबोहियसिद्धा ७ इथिलिंगसिद्धा ८ पुरिसलिंगसिद्धा ९ नपुंसगसिद्धा १० सलिंगसिद्धा ११ अन्नलिंगसिद्धा १२ गिहिलिंगसिद्धा १३ एगसिद्धा १४ अनेगसिद्धा १५ से तं अनंतरसिद्धकेवलनाणं। वृ. अथ किं तदनन्तरसिद्धकेवलज्ञानं?, सूरिराह-अनन्तरसिद्धकेवलज्ञानं पञ्चदशविधं प्रज्ञप्तं, पञ्चदशविधता च तस्यानन्तरसिद्धानामनन्तरपाश्चात्यभवरूपोपाधिभेदापेक्षया पञ्चदशविधत्वात्, ततोऽनन्तरसिद्धानामेवानन्तरभवोपाधिभेदतः पञ्चदशविधतां मुख्यत आह-'तद्यथे'त्युपप्रदर्शने 'तित्थसिद्धा' इत्यादि, तीर्यते संसारसागरोऽनेनेति तीर्थयथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचनं, तच्च निराधारं न भवतीतिकृत्वा सङ्घः प्रथमगणधरो वा वेदितव्यं, उक्तं च___ "तित्थं भंते ! तित्थं तित्थकरे तित्थं ?, गोअमा! अरहा ताव नियमा तित्थंकरे, तित्थं पुण चाउवण्णो समणसंघो पढमगणहरो वा" तस्मिनुत्पन्ने ये सिद्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थं तीर्थस्वाभावश्चानुत्पादोऽपान्तराले व्यवच्छेदो वा तस्मिन् ये सिद्धाः तेऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादेसिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पन्नमासीत्, तथा तीर्थस्य व्यवच्छेदश्चन्द्रप्रभस्वामिसुविधिस्वाम्यपान्तराले तत्र ये जातिस्मरणादिनाऽपवर्गमवाप्य सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्थकराः सन्तो ये सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्यकेवलिनः, तथा स्वयम्बुद्धाः सन्तो ये सिद्धाः ते स्वयम्बुद्धसिद्धाः, प्रत्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेष:?, उच्यते, बोध्युपधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययमन्तरेणैव बुध्यन्ते, स्वयमेव-बाह्यप्रत्ययमन्तरेणैव निजजातिस्मरणादिना बुद्धा: स्वयम्बुद्धा इति व्युत्पत्तेः, ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताश्च, इह तीर्थकरव्यतिरिक्तैरधिकारः, आह च चूर्णिणकृत्-"ते दुविहा-तित्थयरा तित्थयरवइरित्ता वा, इह वइरित्तेहिं अहिगारो" इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ते, प्रत्येकं-बाह्यं वृषभादिकं कारणमभिसमीक्ष्य बुद्धाः प्रत्येक बुद्धाः इति व्युत्पत्तेः, तथा च श्रूयते-बाह्यवृषभादिप्रत्ययसापेक्षा करण्ड्वादीनां बोधिः, बोधिप्रत्ययमपेक्ष्य च बुद्धाः सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव संहताः, आह च चूर्णिणकृत्-"पत्तेयं-बाह्यं वृषभादिकारणमभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिःप्रत्ययप्रतिबुद्धानां च पत्तेयं नियमा विहारो जम्हा तम्हा यते पत्तेबुद्धा इति, तथा स्वयम्बुद्धानामुपधि‘दशविध एव पात्रादिकः, प्रत्येकबुद्धानां तु द्विधा-जघन्यत उत्कर्षश्च, तत्र जघन्यतो द्विविध: उत्कर्षतो नवविधः प्रावरणवर्जः, आह च चूर्णिणकृत्-"पत्तेयबुद्धाणं जहन्नेणं दुविहो उक्कोसेण नवविहो नियमा पाउरणवज्जो भवइ" www.jainelibrary.org Jain Education International For Private & Personal Use Only For P
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy