________________
१२६
नन्दी-चूलिकासूत्रं ___ तथा स्वयम्बुद्धानां पूर्वाधीतं श्रुतं भवति वा न वा, यदि भवति ततो लिङ्ग देवता वा प्रयच्छति गुरुसन्निधौ वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तत एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते, अथ पूर्वाधीतं श्रुतं न भवति तहि नियमाद्गुरुसन्निधौ गत्वा लिङ्गं प्रतिपद्यते, गच्छं चावश्यं न मुञ्चति, उक्तं च चूर्णिणकृत्पुव्वाधीतं से सुयं हवइ वा न वा, जइ से नत्थि तो लिंगं नियमा गुरूसन्निहे पडिवज्जइ, गच्छे य विहरइत्ति, अहवा पुव्वाधीतसुयसंभवो अत्थि तो से लिंगं देवया पयच्छइ गुरुसन्निधे वा पडिवज्जइ, जइ य एगविहारविहरणजोगो इच्छा वा से तो एक्को चेव विहरइ, अन्नहा गच्छे विहरइ'त्ति ।
प्रत्येकबुद्धानां तु पूर्वाधीतं श्रुतं नियमतो भवति, तच्च जघन्यत एकादशाङ्गानि उत्कर्षतः किञ्चिन्यूनानि दश पूर्वाणि, तथा लिङ्गं तस्मै देवता प्रयच्छति, लिङ्गरहितो वा कदाचिद्भवति, तथा चाह चूर्णिणकृत्-"पत्तेयबुद्धाणं पुव्वाधीतं सुयं नियमा भवइ, जहन्नेणं एकारस अंगा, उक्कोसेणं भिन्नदसुपूव्वी, लिंगं च से देवया पयच्छइ लिंगवज्जिओ वा भवति, जतो भणियं'रूप्पं पत्तेयबुद्धा' इति" तथा बुद्धा:-आचार्यास्तैर्बोधिताः सन्तो ये सिद्धाः ते बुद्धबोधितसिद्धा, एते च सर्वेऽपि केचित् स्त्रीलिङ्गसिद्धाः, स्त्रिया लिङ्गं स्त्रिलिङ्ग, स्त्रीत्वस्योपलक्षणमित्यर्थः, तच्च त्रिधा, तद्यथा-वेदः शरीरनिर्वृत्तिर्नेपथ्यं च, तत्रेह शरीरनिर्वृत्त्या प्रय्जनं, न वेदनेपथ्याभ्यां, वेदे सति सिद्धत्वाभात्, नेपथ्यस्य चाप्रमाणत्वात्, आह च चूण्णिकृत्-"इथिए लिंगं इत्थिलिंगं, इत्थिए उवलक्खणंति वृत्तं भवति, तं च तिविहं-वेयो सरीरनिवत्ती नेवत्थं च, इह सरीरनिव्वत्तीए अहिगारो, न वेयनेवत्थेहिं"ति।। ___ तस्मिन् स्त्रीलिङ्गे वर्तमानास्सन्तो ये सिद्धाः ते स्त्रीलिङ्गसिद्धाः एतेन यदाहुराशाम्बराः-न स्त्रीणां निर्वाणामिति, तदपास्तं द्रष्टव्यम्, स्त्रीनिर्वाणस्य साक्षादनेन सूत्रेणाभिधानात्, तत्प्रतिषेधस्य च युक्तयनुपपन्नत्वात, तथाहि-मुक्तिपथो ज्ञानदर्शनचारित्राणि, "सम्यगदर्शनज्ञानचारित्राणि मोक्षमार्गः" इति वचनात्, सम्यग्दर्शनादीनिच पुरुषाणामिव स्त्रीणामपि अविकलानि, तथाहिदृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनार्थमभिरोचयमानाः, जानते चषडावश्यककालिकोत्कालिकादिभेदभिन्नं श्रुतं परिपालयन्ति च सप्तदशविधमकलङ्कं संयमं धारयन्ति च देवसुराणामपि दुर्द्धरं ब्रह्मचर्यं तप्यन्ते च तपांसि मासक्षमणादीनि, ततः कथमिव तासां न मोक्षसम्भवः?, स्यादेतद्-अस्ति स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारित्रं, संयमाभावात्,
तथाहि-स्त्रीणामवश्यं वस्त्रपरिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः तिर्यस्त्रिय इव पुरुषाणामभिभवनीया भवेयुः, लोके च गर्होपजायते, ततोऽवश्यं ताभिर्वस्त्र परिभोक्तव्यं, वस्त्रपरिभोगे चसपरिग्रहता, सपरिग्रहत्वे च संयमाभाव इति, तदसमीचीनं, सम्यक् सिद्धान्तापरिज्ञानात्, परिग्रहो हि परमार्थतो मूर्छाऽभिधीयते, 'मुच्छा परिग्गहो वृत्तो' इति वचनप्रामाण्यात्, तथाहि-मूर्छारहितो भरतचक्रवर्ती सान्तःपुरोऽप्यादर्शकगृहेऽवतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात्, अपिच___ यदि मूर्छाया अभावेऽपि वस्त्र संसर्गमानं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्य कस्यचित्त साधोस्तुषारकणानुषक्ते प्रपतति शीते केनाप्यविषयोपनिपातमद्य शीतमिति वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org