________________
१२४
नन्दी - चूलिकासूत्र सर्वबहव एकैकसमयसिद्धाः, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, एवं तावद्वाच्यं यावत्पञ्चविंशतिसिद्धाः सङ्ख्येयगुणहीनाः, उक्तं च
“पढमो चउत्थभागो पणवीसा तत्थ संखेज्जगुणहानी दट्ठवत्ति" द्वितीये पुनश्चतुर्थभागे क्रमेणासङ्ख्येयगुणहानिर्वक्तव्या, तद्यथा पञ्चविंशतिसिद्धेभ्य: षड्विंशतिसिद्धाः सङ्ख्येयगुणहीनाः, एवमेकैकवृद्धा असङ्ख्येयगुणहानिः तावद्वक्त्व्या यावतपञ्चाशत्, तदुक्तं- “बिइए उत्थभागे असंखगुणहानि जाव पन्नासं" ति, तृतीयस्माचतुर्थभागादराम्य सर्वत्रापि अनन्तगुणहानिर्वक्तव्या, तद्यथा-पञ्चाशत्सिद्धेभ्य एकपञ्चाशत्सिद्धा अनन्तगुणहीनाः तेभ्यो ऽपि द्विपञ्चाशत्सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धा अनन्तगुणहानिस्तावद्वक्तव्या यावदष्टाधिकशतसिद्धा अनन्तगुणहीनाः, उक्तं च- "तइयपयं आइकाऊण चउत्थपयं जाव अट्ठसयं ताव अनंतगुणहानी एगवन्नाओ आरंभ दट्ठवा । "
सिद्धप्राभृतसूत्रे ऽप्युक्तं - "पढमे भागे संखा बिईए असंख अनंत तइयाए।" तथा यत्र यत्र विशंतिसिद्धाः तत्र तत्रापि व्याप्तिरियमनुसर्त्तव्या, प्रथमे चतुर्थभागे सङ्ख्येयगुणहानि: द्वितीये असङ्ख्येयगुणहानिः तृतीये चतुर्थे वा चानन्तगुणहानिः, तद्यथा एकैकसिद्धाः सर्वबहवः तेभ्योऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः एवं तावद्वाच्यं यावत्पञ्च, ततः षडादिसिद्धा असङ्खयेयगुणहीना यावद्दश, तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः, एवमधोलोकादिष्वपि विंशतिपृथक्त्वासिद्धौ प्रथमे चतुर्थभागे सङ्ख्येयगुणहानिः, द्वितीयचतुर्थभागेऽसङ्ख्येयगुणहानि:, तृतीयस्माचतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानि:, येषु तु हरिवर्षादिषु स्थानेषूत्कर्षतो दश दश सिध्यन्ति तत्रैवं व्याप्तिः - त्रिकं यावत्सङ्ख्येयगुणहानि:, ततश्चतुष्के पञ्चके चासङ्ख्येयगुणहानि:, तत षट्कारदारभ्य सर्वत्रापि अनन्तगुणहानि:, तद्यथा
एककसिद्धा: सर्वबहव:, ततो द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः असङ्ख्येयगुणहीनाः, तेभ्योऽपि पञ्च २ सिद्धा असङ्ख्येयगुणहीनाः, ततः षडादयः सर्वेऽप्यनन्तगुणहीनाः, यत्र पुनरवगाहनायवमध्यादावुत्कर्षतोऽष्टौ सिध्यन्तः प्राप्यन्ते तत्रैवं व्याप्तिः - चतुष्कं यावत्सङ्ख्येयगुणहानि:, ततः परमनन्तगुणहानिः, तद्यथा-एककसिद्धाः सर्वबहवः तेभ्याऽपि द्विकद्विकसिद्धाः सङ्ख्येयगुणहीनाः तेभ्योऽपि त्रित्रिकसिद्धाः सङ्ख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुः सिद्धाः सङ्ख्येयगुणहीनाः परं पञ्चपञ्चादयोऽनन्तगुणहीनाः अत्रासङ्ख्येयगुणहानिर्न विद्यते, यत्र पुनरुर्द्धलोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राप्यन्ते तत्र एवं व्याप्तिः - एककसिद्धाः सर्वबहवः, तेऽभ्यो द्विद्विकसिद्धा असङ्ख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धा अनन्तगुणहीनाः, तेभ्योऽपि चतुश्चतुसिद्धा अनन्तगुणहीना:, अत्र सङ्ख्येयगुणहानिर्न विद्यते, तदुक्तं - " जत्थ चत्तारि सिद्धा दिट्ठा तत्थ संखेज्जगुणहाथी नत्थि 'संखेज्जविवज्जिय चउक्के' इति वचना" दिति ।
यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिध्यन्तौ दृष्टौ तत्रैवं व्याप्तिः - एककसिद्धाः सर्वबहवः, ततो द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुक्तं - "लवणादौ दो सिद्धा दिट्ठा तत्थ एक्कगसिद्धा बहुगा, दुगसिद्धा अनंतगुणहीणा ।" तदेवमिह सन्निकर्षो द्रव्यप्रमाणे सप्रपञ्चं चिन्तितः, शेषेषु तु द्वारेषु सिद्धप्राभृतटीकातो भावनीयः, इह तु ग्रन्थगौरव भयान्नोच्यते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org