SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मूलं-८६ १२३ द्विसमयान्तरसिद्धाः सङ्घयेयगुणाः ततोऽपि त्रिसमयान्तरसिद्धाः सङ्खयेयगुणाः एवं तावद्वाच्यं यावद्यवमध्यं, ततः सङ्घयेयगुणहीनास्तावद्वक्तव्या यावदेकसमयहीनषण्मासान्तरसिद्धेभ्यः पण्मासान्तरसिद्धाः सङ्खयेगुणहीनाः, अनुसमयद्वारे-सर्वस्तोकाः अष्टसमयसिद्धाः तत सप्तसमयसिद्धाः सङ्ख्येयगुणा: तेभ्यः षट्समयसिद्धाः सङ्ख्येयगुणा एवं समयसमयहान्या तावद्वाच्यं यावद् द्विसमयसिद्धाः सङ्खयेयगुणाः, उक्तं च "अट्ठसमयंमि थोवा संखेज्जगुणा उसत्तसमया उ। __ एवं पडिहायंते जाव पुणो दोन्नि समया उ॥" अत्र 'अट्ठसमयंमी'त्यादौ द्विगुसमाहारत्वादेकवचनं, गणनाद्वारे-सर्वस्तोकाअष्टशतसिद्धाः ततः सप्ताधिकशतसिद्धा अनन्तगुणा: तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणा: तेभ्यः पञ्चाधिकशतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुणा: तावद्वाच्या यावदेकपञ्चाशत्सिद्धेभ्यः पञ्चाशत्सिद्धा अनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असङ्खयेयगुणा: तेभ्योऽप्यष्टचत्वारिंशत्सिद्धा असङ्खयेयगुणाः एवमेकैकपरिहान्या तावद्वाच्यं यावत्षड्विंशतिसिद्धेभ्यः पञ्चविंशतिसिद्धा असङ्घयेयगुणाः, ततः तेभ्यश्चर्तुर्विंशतिसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रयोविंशतिसिद्धाः, सङ्ख्येयगुणाः एवमेकैकहान्या सङ्ख्येयगुणाः तावद्वाच्या यावद्दिसिद्धेभ्य एकैकसिद्धाः सङ्घयेयगुणाः, उक्तं च - "अट्ठसयसिद्ध थोवा सत्तहियसया अनंतगुणिया य। एवं परिहायंते सवगाओ जाव पन्नासं ॥ तत्तो पन्नासाओ असंखगुणिया उ जाव पणवीसं। पणवीसा आरंभा संखगणा होंति एगं जा ।।" सम्प्रति अस्मिन्नेवाल्पबहुत्वद्वारे यो विशेषः सिद्धप्राभृते दर्शितः स विनेयजनानुग्रहाय दर्शाते-तत्र सर्वस्तोका अधोमुखसिद्धाः, ते च पूर्ववैरिभिः पादेनोत्पाट्य नीयमाना अधोमुखकायोत्सर्गव्यवस्थिता वा वेदितव्याः, तेभ्य ऊर्वस्थितकायोत्सर्गस्थिताः सङ्ख्येयगुणाः, तेभ्योऽपि उत्कटिकासनसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि वीरासनसिद्धाः सङ्घयेययगुणाः तेभ्योऽपि न्युब्जासनसिद्धाः सङ्घयेयगुणाः, न्युब्जोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्श्वस्थितसिद्धा सङ्घयेयगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः सङ्खयेयगुणाः, तथा चैतदेव पश्चानुपूर्व्याऽभिहितं "उत्तानग पासल्लिग्ग निउज्ज वीरासने य उक्कडिए। उद्धट्रिय ओमंथिय संखेज्जगणेण हीना उ॥" तदेवमुक्तमल्पबहुत्वद्वारं । सम्प्रति सर्वद्वारगताल्पबहुत्वविशेषोपदर्शनाय सन्निकर्षद्वारमुच्यते-सन्निकर्षो नाम संयोगः, हस्वदीर्घयोरिव, विवक्षितं किञ्चित्प्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वाऽवस्थानरूपः सम्बन्धः, उक्तं च___ "संजोग सन्निगासो पडुच्च सम्बन्ध एगट्ठा" तत्रेयं व्याप्तिः-यत्र यत्राष्टशतमुपलभ्यते तत्र तत्रोपरितनमष्टकरूपमङ्कमपनीय शेषस्य शतस्य चतुर्भिर्भागो हियते, हते च भागे लब्भाः पञ्चविंशतिः, तत्र पञ्चविंशतिसङ्ख्येयप्रथमचतुर्थभागे क्रमेण सङ्घयेयगुणहानिर्वक्तव्या, तद्यथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy