________________
१२२
नन्दी - चूलिकासूत्रं
सिद्धा: संख्येयगुणा तेभ्यः तीर्थकरसिद्धा अनन्तगुणाः तेभ्योऽपि तीर्थकरतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरतीर्थ एव साध्वीसिद्धा: संख्येयगुणाः तेभ्योऽपि तीर्थकरतीर्थ एवातीर्थकरसिद्धाः सङ्ख्येयगुणाः,
लिङ्गद्वारे गृहिलिङ्गसिद्धाः सर्वस्तोकाः तेभ्योऽप्यन्यलिङ्गसिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि स्वलिङ्गसिद्धाः असङ्ख्येयगुणाः, उक्तं च- "गिहिअन्नलिंगेहि सिद्धा थोवा दुवे असंखगुणा" चारित्रद्वारे - सर्वस्तोकाश्छेदोपस्थापन परिहारविशुद्धिकसूक्ष्मसम्पराययथास्खातचारित्रासिद्धाः तेभ्यः सामायिकच्छेदोपस्थानपरिहारवशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः असङ्ख्येयगुणाः, सामायिकरहितं च छेदोपस्थापनं भग्नाचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययगाथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रसिद्धाः सङ्ख्येयगुणाः, उक्तं च
44
'थोवा परिहारचऊ पंचग संखा असंख छेयतिगं ।
छेयचउकं संखे सामाइयतिगं च संखगुणं ॥ "
बुद्धद्वारेसर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्धसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धीबोधितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि बुद्धबोधितसिद्धाः सङ्ख्येयगुणाः,
ज्ञानद्वारे मतिश्रुतमन: पर्यायज्ञानिः सिद्धाः सर्वस्तोकाः तेभ्यो मतिश्रुतज्ञानिसिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि मतिश्रुतावधिमन:पर्ययज्ञानसिद्धाः असङ्ख्येयगुणाः तेभ्यो ऽपि मतिश्रुतावधिज्ञानिसिद्धाः सङ्ख्येयगुणाः, उक्तं च
"मनपज्जवनाणतिगे दुगे चउक्के मनस्स आणस्स । थोवा संख असंखा ओहितिगे हुंति संखेज्जा ॥" अवगाहनाद्वारे- सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः तेभ्या धनुः पृथक्त्वाभ्यधिकपञ्चधनुः-शतोप्रमाणोत्कृष्टावगाहनासिद्धाः असङ्ख्येयगुणाः ततो मध्यमावगाहनासिद्धाः असङ्ख्येयगुणाः, उक्तं च
"ओगाहणा जहन्ना थोवा उक्कोसिया असंखगुणा । तत्तोवि असंखगुणा नायव्वा मज्झिमाएवि ॥'
"1
अत्रैव सिद्धप्राभृतटीकाकारोपदर्शितो विशेष उपदर्श्यते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः तेभ्यः पञ्चधनुः शतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि सातिकरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाधिकाः उत्कृष्टद्वारे सर्वस्तोका : अप्रतिपतितसिद्धाः तेभ्यः सङ्ख्येयकालप्रतिपतितसिद्धा असङ्ख्येयगुणाः तेभ्योऽप्यसङ्ख्येयकालप्रतिपतितसिद्धाः सङ्ख्येयगुणाः तेभ्योऽप्यनन्तरकालप्रतिपतितसिद्धाः असङ्ख्येयगुणाः, उक्तं च
"अप्पडिवाईयसिद्धा संखासंखअनंतकाला य ।
थोव असंखेज्जगुणा संखेज्जगुणा असंज्ज (ख) गुणा ।। " अन्तरद्वारे-सर्वस्तोकाः षण्मासान्तरसिद्धाः तत एकसमयान्तरसिद्धाः सङ्ख्येयगुणाः ततो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org