SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ मूलं-८६ १२१ तथा एकेन्द्रियेभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततः पृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, ततोऽप्यपकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि त्रसकायेभ्योऽनन्तरागता: सिद्धाः सङ्घयेयगुणाः, उक्तं च "एगिदिएहिं थोवा सिद्धा पञ्चेदिएहि संखगुणा। तरुपुढविआउतसकाइएहि संखागुणा कमसो॥" तथा चतुर्थपृथिवीतोऽनन्तरागताः सिद्धाः सर्वस्तोका: तेभ्यस्तृतीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि द्वितीयपृथिवीतोऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पर्याप्तबादरप्रत्येकवनस्पतिभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि पर्याप्तबादरपृथिवीकायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि पर्याप्तबादराप्कायेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि भवनपतिदेवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि भवनवासिदेवेभ्योऽनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, ततोऽपि व्यन्तरीभ्योऽनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि व्यन्तरदेवेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि ज्योतिष्कदेवीभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि ज्योतिष्कदेवेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योपि मनुष्यस्त्रीभ्योऽप्यनन्तरागता: सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि मनुष्येभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपि प्रथमनरकपृथिवीतोऽनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिस्त्रीभ्योऽनन्तरागंताः, सिद्धाः संख्येयगणाः, तेभ्योऽपि तिर्यग्योनिकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि अनुत्तरोपपातिकदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ग्रैवेयकेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽप्यच्युतदेवलोकादनन्तरागता: सिद्धा: संख्येयगुणाः, तेभ्योऽपि आरणदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणा: एवमधोमुखं तावन्नेयं यावत् सनत्कुमारादनन्तरागताः सिद्धाः संख्येयगुणाः, तत ईशानदेवीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, ततोऽपि सौधर्मदेवीभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि ईशानदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, तेभ्योऽपि सौधर्मदेवेभ्योऽनन्तरागताः, सिद्धाः संख्येयगुणाः, उक्तं च "नरगचउत्थापुढवी तच्चा दोच्चा तरू पुढवि आऊ। - भवणवइदेवि देवा एवं वणजोइसाणंपि॥ मनुई मनुस्स नारयपढमा तह तिरिक्खिणीयतिरिया य। देवा अनुत्तराई सव्वेवि सणंकुमारंता॥ ईसाणदेविसोहम्मदेवि ईसाणदेव सोहम्मा। सव्वेवि जहाकमसो अनंतरायाउ संखगणा। गतं गतिद्वारं, सम्प्रति वेदद्वारं-अत्र सर्वस्तोका नपुंसकसिद्धाः तेभ्यः स्त्रीसिद्धाः संख्येयगुणाः, तेभ्योऽपि पुरुषसिद्धाः संख्येयगुणाः, उक्तं च--"थोवा नपुंस इत्थी संखा संखगुणा तओ पुरिसा " तीर्थद्वारे-सर्वस्तोका: तीर्थकरीसिद्धाः ततः तीर्थकरीतीर्थे प्रत्येकबुद्धसिद्धाः संख्येयगुणाः तेभ्योऽपि तीर्थकरीतीर्थेऽतीर्थकरीसिद्धाः संख्येयगुणा तेभ्योऽपि तीर्थकरीतीर्थे एवातीर्थकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy