SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ - १२० नन्दी-चूलिकासूत्रं महाहिमवद्रुक्मिपुष्करवरद्वीपार्द्धहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः, स्वस्थाने तु चत्वारोऽपि परस्परं तुल्याः ८ ततो धातकीखण्डनिषधनीलवत्सिद्धाः पुष्करवरद्वीपार्द्धमहाहिमवद्रुक्मिसिद्धाश्च सङ्ख्ययगुणाः स्वस्थाने तु परस्परं तुल्याः ९ ततो धातकीखण्डहैमतैरण्यवतसिद्धा विशेषाधिकाः १० तेभ्योऽपि पुष्करवरद्वीपार्द्धनिषधनीलवत्सिद्धाः सङ्ख्येयगुणाः ११ ततो धातकीखण्डदेवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १२ तेभ्योऽपि धातकीखण्ड एव हरिवर्षरम्यकसिद्धा विशेषाधिकाः १३ ततः पुष्करवरद्वीपार्द्धहिमवतैरण्यवतसिद्धाः सङ्घयेयगुणाः १४ तेभ्योऽपि पुष्करवरद्वीपार्द्ध एव देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः १५ तेभ्योऽपि तत्रैव हरिवर्षरम्यकसिद्धा विशेषाधिका: १६ तेभ्योऽपि जम्बूद्वीपभरतैरावतसिद्धाः सङ्ख्येयगुणाः १७ तेभ्योऽपि धातकीखण्डसत्कभरतैरावतसिद्धाः सङ्ख्येयगुणा: १८ तेभ्योऽपि पुष्करवरद्वीपार्द्धभरतैरावतसिद्धाः सङ्ख्येयगुणाः १९ तेभ्योऽपि जम्बूद्वीपे विदेहसिद्धाः सङ्ख्येयगुणाः २० ततो धातकीखण्डविदेहसिद्धाः सङ्ख्येयगुणा: २१ ततोऽपि पुष्करवरद्वीपाढे विदेहसिद्धाः सङ्ख्येयगुणाः २२, इदं च क्षेत्रविभागेनाल्पबहुत्वं सिद्धप्राभृतटीकातो लिखितं । गतं क्षेत्रद्वार, अधुना कालद्वारं तत्रावसप्पिण्यां संहरणत एकान्तदुष्पमासिद्धाः सर्वस्तोकाः इतो दुष्षमासिद्धाः सङ्घयेयगुणाः, तेभ्य: सुषमदुष्षमासिद्धा असङ्खयेयगुणाः, कालस्यासङ्घयेयगुणत्वात्, तेभ्योऽपि सुषमासिद्धा विशेषाधिकाः, तेभ्योऽपि सुषमसुषमासिद्धा विशेषाधिका:, तेभ्योऽपि दुष्षमसुषमासिद्धा: सङ्घयेयगुणाः, उक्तं चं "अइदूसमाइ थोवा संख असंखा दुवे विसेसहिया। ___ दूसमसुसमा संखागुणा उ ओसप्पिणीसिद्धा ।" एवमुत्सपिण्यामपि द्रष्टव्यम्, तथा चोक्तम् "अइदूसमाइ थोवा संखअसंखा उदुन्नि सविसेसा। दूसमसुसमा संखागुणा उ उस्सप्पिणीसिद्धा॥" सम्प्रत्युत्सपिण्यवसप्पिण्योः समुदायेनाल्पबहुत्वमुच्यते-तत्र द्वयोरप्युर्तपण्यवसप्पिण्योरेकान्तदुष्षमासिद्धाः सर्वस्तोकाः, तत उत्सपिण्यां दुष्षमासिद्धा विशषाधिकाः, ततोऽवसपिण्यां दुष्षमासिद्धाः सङ्घयेयगुणाः, ततो द्वयोरपि सुषमदुषमासिद्धाः असङ्ख्येयगुणाः तेभ्योऽपि द्वयोः सुषमासिद्धा विशेषाधीका: तेभ्योऽपि द्वयोरपि सुषमसुषमासिद्धाः॥ विशेषाधिकाः इति पाठः । तेभ्योऽपि द्वयोरपि दुष्षमसुषमासिद्धाः सङ्ख्येयगुणाः, ततोऽवसपिण्यां सर्वसिद्धाः सङ्घयेयगुणाः, तेभ्योऽप्युत्सप्पिणीसर्वसिद्धा विशेषाधिकाः, गतं कालद्वारं, सम्प्रति गतिद्वारं-तत्रा मानुषीभ्योऽनन्तरागताः सिद्धाः सर्वस्तोकाः, ततो मानषेभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि नैरयिकेभ्योऽनन्तरागता: सिद्धाः सङ्घयेयगुणाः, तेभ्योऽपितिर्यग्यो-निस्त्रीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि तिर्यग्योनिकेभ्याऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवीभ्योऽनन्तरागताः सिद्धाः सङ्ख्येयगुणाः, तेभ्योऽपि देवेभ्योऽनन्तरागताः सिद्धाः सङ्घयेयगुणाः, उक्तं च "मनुई मनुया नारय तिरिक्खणी तह तिरिक्ख देवीओ। देवा य जहाकमसो संखेज्जगुणा मुणेयव्वा ।।" Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy