________________
मूलं - ८६
११९
चिन्तायां सर्वेष्वपि द्वारेपु सर्वत्रेवानन्ता वक्तव्याः, क्षेत्रस्पर्शने प्रागिव, काल: पुन: सर्वत्रापि अनादिरूपोऽनन्तो वक्तव्यः, अत एवान्तरमसम्भवान्न वक्तव्यम्, तदुक्तं द्रव्यप्रमाणं कालमन्तरं चाधिकृत्य सिद्धप्राभृते--"परिमाणेन अनंता कालोऽणाई अनंतओ तेसिं । नत्थि य अंतरकालो"त्ति, भावद्वारमपि प्रागिव, सम्प्रत्यल्पबहुत्वं सिद्धप्राभृतक्रमेणोच्यते - समुद्रसिद्धाः स्तोकाः तेभ्यो द्वीपसिद्धाः सङ्ख्येयगुणाः, तथा जलसिद्धाः स्तोकाः तेभ्यः स्थलसिद्धाः सङ्ख्येयगुणाः, तथा ऊद्धर्वलोकसिद्धाः स्तोकाः तेभ्योऽधोलोकसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि तिर्यग्लोकसिद्धाः सङ्ख्येयगुणाः, उक्तं च
"सामुद्ददीव जलथल दुण्हं २ तु थोव संखगुणा । उड्डूअहतिरियलोए थोवा संखागुणा संखा ॥ "
तथा लवणसमुद्रसिद्धाः सर्वस्तोकाः तेभ्यः कालोदसमुद्रसिद्धाः सङ्ख्येयगुणाः तेभ्यो ऽपि जम्बूद्वीपासिद्धाः सङ्ख्येयगुणाः तेभ्यो धातकीखण्डसिद्धाः सङ्ख्येयगुणाः तेभ्योऽपि पुष्करवरद्वीपार्द्धसिद्धाः सङ्ख्येयगुणाः उक्तं च
"लवणे कालोए वा जंबूद्दीवे य धायईसंडे । पुक्खरवरे य दीवे कमसो थोवा य संखगुणा ||"
तथा जम्बूद्वीपे संहरणतो हिमवच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्यो हैमवतऐरण्यवतसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि महाहिमवदुक्मिसिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ४ तेभ्यो ऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यात् ५, तेभ्योऽपि निषधनीलवतसिद्धाः सङ्ख्येयगुणाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः, स्वस्थानन्तवात् ७, तेभ्यो महाविदेहसिद्धाः सङ्ख्येयगुणाः, सद्भावात् ,
सम्प्रति धातकीखण्डे क्षेत्रविभागेनोच्यते- धातकीखण्डे संहरणतो हिमवत्शिखरिसिद्धाः सर्वस्तोकाः १ तेभ्यो महाहिमवद्रुक्मिसिद्धा: संख्येयगुणाः २ तेभ्योऽपि निषधनीलवत्सिद्धाः संख्येयगुणाः ३ तेभ्योऽपि हैमवतैरण्यवतसिद्धा विशेषाधिकाः ४ तेभ्यो देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ५ तेभ्योऽपि हरिवर्षरम्यकसिद्धा विशेषाधिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्यगुणाः ७ तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः ८,
तथा पुष्करवरद्वीपाद्धे हिमवच्छिखरिसिद्धाः सर्वस्तोकाः १ तेभ्योऽपि महाहिमवद्रुक्मिसिद्धाः सङ्ख्येयगुणाः २ तेभ्यो ऽपि निषधनीलवत्सिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः ४ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ५ तेभ्यो ऽपि हरिवर्षरम्यकसिद्धाः विशेषाधिकाः ६ तेभ्योऽपि भरतैरावतसिद्धाः सङ्ख्येयगुणाः ७, स्वस्थानमितिकृत्वा, तेभ्योऽपि महाविदेहसिद्धाः सङ्ख्येयगुणाः, क्षेत्रबाहुल्यात् स्वस्थानाच्च ८,
सम्प्रति त्रयाणामपि समवायेनाल्पबहुत्वमुच्यते-सर्वस्तोका जम्बूद्वीपे हिमवच्छिखरिसिद्धिः १ तेभ्योऽपि हैमवतैरण्यवतसिद्धाः सङ्ख्येयगुणाः २ तेभ्योऽपि महाहिमवदुक्मिसिद्धाः सङ्ख्येयगुणाः ३ तेभ्योऽपि देवकुरूत्तरकुरुसिद्धाः सङ्ख्येयगुणाः ४ तेभ्योऽपि हरिवर्षरम्यकसिद्धाः सङ्ख्येयगुणाः ५ तेभ्यो ऽपि निषधनीलवत्सिद्धाः सङ्ख्येयगुणाः ६ तेभ्योऽपि धातकीखण्डहिमवच्छिखरिसिद्धाः सङ्ख्येयगुणाः स्वस्थाने तु परस्परं तुल्याः ७ ततो धातकीखण्ड
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International