________________
११६
-
नन्दी-चूलिकासूत्रं "बत्तीसा अडयाला सट्ठी बावत्तरी य बोद्धवा।
चलसीई छनउई दरहियमत्तरसयं च ॥" अत्राष्टसामायिकेभ्य आरभ्य द्विसामायिकपर्यन्ता निरन्तरं सिद्धाः एकैकस्मिश्च विकल्पे उत्कर्षतः शतपृथक्त्वं सङ्घयापरिमाणं, गणनाद्वारमल्पबहुत्वद्वारं च प्रागिव द्रष्टव्यं, तथा च सिद्धप्राभतेऽपि द्रव्यप्रमाणचिन्तायामेतयोारयोः सत्पदप्ररूपणोक्तैव गाथा भूयोऽपि परावर्त्तिता
"संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं ।
सिद्धा नेगा थोवा एक्कगसिद्धा उ संखगुणा ।" - तदेवमुक्तं द्रव्यप्रमाणं, सम्प्रति क्षेत्रप्ररूपणा कर्तव्या-तत्र पूर्वभावमपेक्ष्य सत्पदप्ररूपणायामेव कृता, सम्प्रति प्रत्युत्पन्ननयमतेन क्रियते-तत्र पञ्चदशस्वप्यनुयोगद्वारेषु पृच्छा, इह सकलकर्मक्षयं कृत्वा कुत्र गतो भगवान् सिध्यति?, उच्यते, ऋजुगत्या मनुष्यक्षेत्रप्रमाणे सिद्धिक्षेत्रे गतः सिध्यति, यदुक्तं-“इह बोंदि चइत्ता णं तत्थ गंतूण सिज्झइ" गतं क्षेत्रद्वार,
सम्प्रति स्पर्शनाद्वारं-स्पर्शना च क्षेत्रावगाहादतिरिक्ता यथा परमाणोः, तथाहि-परमाणोरेकस्मिन् प्रदेशेऽवगाहः सप्तप्रादेशिकी च स्पर्शना, उक्तं च-“एगपएसोगाढं सत्तपएसा य से फुसणा" सिद्धानां तु स्पर्शना एवमवगन्तव्या
"फुसइ अनंते सिंद्धे सव्वपएसेहिं नियमसो सिद्धो।
ते उ असंजेज्जगुणा देसपएसेहिं जे पुट्ठा।" गतं स्पर्शनाद्वारं । सम्प्रति कालद्वारं, तत्र चेयं परिभाषासर्वेष्वपि द्वारेषु यत्र २ स्थानेऽष्टशतमेकसमयेन सिध्युक्तं तत्र तत्राष्टौ समया निरन्तरं कालो वक्तव्यः, यत्र २ पुनर्विशतिर्दश वा तत्र २ चत्वार: समयाः, शेषेषु स्थानेषु द्वौ समयौ, उक्तं
"जहिं अट्ठसयं सिज्झइ अट्ठ उ समया निरंतरं कालो।
वीसदसएसु चउरो सेसा सिझंति दो समए ।" सम्प्रति एतदेव मन्दविनेयजनानुग्रहाय विभाव्यते, तत्र क्षेत्रद्वारे-जम्बूद्वीपे धातकीखण्डे पुष्करवरद्वीपे च प्रत्येकं भरतैरावतमहाविदेहेषूत्कर्तोऽष्टौ समयान्, यावनिरन्तरं सिध्यन्तः प्राप्यन्ते, हरिवर्षादिष्वधोलोके च चतुरश्चतुरः समयान्, नन्दनवने पण्डकवने लवणसमुद्रेच द्वौ द्वौ समयौ, कालद्वारे-उत्सप्पिण्यामवसपिण्यांच प्रत्येक तृतीयचतुर्थारकयोरष्टावष्टौ समयान्, शेषेषु चारकेषु चतुरश्चतुरः समयान्, गतिद्वारे-देवगतेरागता उत्कर्षतोऽष्टौ समयान्, शेषगतिभ्य आगताश्चतुरः समयानिति, वेदद्वारे-पश्चात्कृतपुरुषवेदा अष्टौ समयान, पश्चात्कृतस्त्रीवेदनपुंसकवेदाः प्रत्येकं चतुरश्चतुरः समयान्, पुरुषवेदेभ्य उद्धृत्य पुरुषा एव सन्तः सिध्यन्तोऽष्टौ समयान्, शेषेषु चाष्टसु भङ्गेषु चतुश्चतुरः समयानिति, __तीर्थद्वारे-तीर्थकरतीर्थे तीर्थकरीतीर्थे वाऽतीर्थकरसिद्धा उत्कर्षतोऽष्टौ समयान्, तीर्थकराः तीर्थकर्यश्च द्वौ द्वौ समयौ, लिङ्गद्वारे-स्वलिङ्गेऽष्टौ समयान्, अन्यलिङ्गे चतुर: समयान्, गृहलिङ्गे द्वौ समयौ, चारित्रद्वारे-अनुभूतपरिहारविशुद्धचारित्राश्चतुरः समयान्, शेषा अष्टावष्टौ समयान्, बुद्धद्वारे-स्वयंबुद्धा द्वौ समयौ, बुद्धबोधिता अष्टौ समयान्, प्रत्येकबुद्धा बुद्धीबोधिताः स्त्रियो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org