SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ मूलं-८६ "पच्छाकडं चरित्तं तिगं चउक्कं च तेसिमट्ठसयं । परिहारिएहिं सहिए दसगं दसगं च पंचगडे ॥" बुद्धद्वारेप्रत्येकबुद्धानां दशकं, बुद्धबोधितानां पुरुषाणामष्टशतं, बुद्धबोधितानां स्त्रीणां विंशतिः, नपुंसकानां दशकं, बुद्धीभिर्बोधितानां स्त्रीणां विंशतिः, बुद्धिभिर्बोधितानामेव सामान्यतः पुरुषादीनां विंशतिपृथक्त्वं, उक्तंच सिद्धप्राभृतटीकायां-'बुद्धीहिं चेव बोहियाण पुरिसाईणं सामनेण वीसपुहुत्तं सिज्झइ'त्ति, बुद्धी च मल्लिस्वामिनीप्रभृतिका तीर्थकरी सामान्यसाध्व्यादिका वा वेदितव्या, यतः सिद्धप्राभृतटीकायामेवोक्तं-बुद्धीओवि मल्लीपमुहो अन्नाओ य सामन्नसाहुणीपमुहाओ बोहंतित्ति" ज्ञानद्वारे-पूर्वभावमपेक्ष्य मतिश्रुतज्ञानिनो युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, मतिश्रुतमनःपर्यायज्ञानिनो दश, मतिश्रुतावधिज्ञानिनां मतिश्रुतावधिनःपर्यायज्ञानिनां वा अष्टशतं। __ अवगाहनाद्वारे-जघन्यायामवगाहनायां युगपदेकसमयेनोत्कर्षतश्चत्वारः सिध्यन्ति, उत्कृष्टायां द्वौ, अजघन्योत्कृष्टायामष्टशतं, यवमध्येऽष्टौ, उक्तं च-- ___ "उक्कोसगाहणाए दो सिद्धा होंति एकसमएणं। चत्तारि जहन्नाए अट्ठसयं मज्झिमाए उ॥" अत्र टीकाकारेण व्याख्या कृता-गाथापर्यन्तवर्तिनस्तुशब्दस्याधिकार्थसंसूचनात् 'जवमज्झे अट्ठ' इति' उत्कृष्टद्वारे येषां सम्यक्त्वपरिभ्रष्टानामनन्तः कालोऽगमत्तेषामष्टशतं, सङ्घयातकालपतितानामसङ्ख्यातकालपतितानां च दशकं २, अप्रतिपतितसम्यक्त्वानां चतुष्टयं, उक्तं च "जेसिं अनंतकालो पडिवाओ तेसि होइ अट्ठसयं । अप्पडिवडिए चउरो दसगं दसगं च सेसाणं।" अन्तरद्वारे एको वा सान्तरतः सिध्यति वहवो वा, तत्र बहवो यावदृष्टशतं । अनुसमयद्वारे-प्रतिसमयमेको वा सिध्यति बहवो वा, तत्र बहूनां सिध्यतामियं प्ररूपणाएकादयो द्वात्रिंशत्पर्यन्ता निरन्तरमुत्कर्षतोऽष्टौ समयान्यावत् प्राप्यन्ते, इयमत्र भावना-प्रथमसमये जघन्य एको द्वौ वा उत्कर्षतो द्वात्रिंशत् सिध्यन्तः प्राप्यन्ते, द्वितीयसमये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशद्, एवं तृतीयसमयेऽपि, एवं चतुर्थसमयेऽपि, एवं यावदष्टमेऽपि समये जघन्यत एको द्वौ वा उत्कर्षतो द्वात्रिंशत्तः परमवश्यमन्तरं । ___ तथा त्रयस्त्रिंशदादयोऽष्टचत्वारिंशत्पर्यन्ता निरन्तरं सिध्यन्तः, सप्त समयान् यावत्प्राप्यन्ते, भावना प्रागवत्, परतो नियमादन्तरं, तथा एकोनपञ्चाशदयादयः षष्ठिपर्यन्ता निरन्तरं सिध्यन्तः उत्कर्षतः षट् समयान् यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा एकषष्ट्यादयो द्विसप्ततिपर्यन्ता निरन्तरमुत्कर्षतः सिध्यन्तः उत्कर्षतः पञ्च समयान यावत्प्राप्यन्ते, ततः परमन्तरं, तथा त्रिस.. सत्यादयश्चतुरशीतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षश्चतुरस्समयान्यावत्प्राप्यन्ते, तत ऊर्वमन्तरं, तथा पञ्चाशीत्यादयः षण्णवतिपर्यन्ता निरन्तरंसिध्यन्तः उत्कर्षतस्त्रीन समयान यावदवाप्यन्ते, परतोऽवश्यमन्तरं, तथा सप्तनवत्यादयो द्युत्तरशतपर्यन्ता निरन्तरं सिध्यन्त उत्कर्षतो द्वौ समयौ यावदवाप्यन्ते, परतो नियमादन्तरं, तथा व्युत्तरशतादयोऽष्टोत्तरशतपर्यन्ताः सिध्यन्तो नियमादेकमेव समयं यावदवाप्यन्ते, न द्विवादिसमयानिति । एतदर्थसंग्राहिका चेयं गाथा - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy