SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११४ नन्दी - चूलिकासूत्रं पट् पञ्चेन्द्रियस्तिर्यग्योनिपुरुषेभ्य आगता दश, पञ्चेन्द्रियतिर्यग्योनिस्त्रीभ्यो ऽप्यागता दश, तथा सामान्यतो मनुष्यगतेरागता विंशतिः, विशेषचिन्तायां मनुष्यपुरुषेभ्य आगता दश मनुष्यस्त्रीभ्य आगता विंशति:, तथा सामान्यतो देवगतेरागता अष्टशतं, विशेषचिन्तायामसुरकुमारेभ्यो नागकुमारेभ्यो यावत् स्तनितकुमारेभ्यः प्रत्येकमागता दश २ असुरकुमारीभ्यः प्रत्येकमागताः पञ्च पञ्च व्यन्तरदेवेभ्य आगता दश व्यन्तरीभ्य आगताः पञ्च ज्योतिष्कदेवेभ्य आगता दश ज्योतिष्कदेवीभ्य आगता विंशतिः वैमानिकदेवेभ्य आगता अष्टशतं, वैमानिकदेवीभ्य आगता विंशति:, तथा च प्रज्ञापनाग्रन्थः " अनंतरागया णं भंते! नेरइया एगसमएणं केवइया अंतकिरिअं पकरेंति ?, गोअमा !, जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं दस, रयणप्पभापुढविनेरइयावि एवं चेव, जाव वालुयप्पभापुढविनंरइया, अनंतरागया णं भंते! पंकप्पभापुढविनेरइया एगसमयेणं केवइया अंतकिरिअं पकरेंति ?, गोअमा !, जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं चत्तारि, अनंतरागया णं भंते ! असुरकुमारा एगसमए णं केवइया अंतकिरिअं पकरेंति ?, गोअमा ! जहन्त्रेणं एक्को वा दो वा तिन्निवा, उक्कोसेणं दस, अनंतरागयाणं भंते! असुरकुमारीओ एगसमएणं केवइयाओ अंतकिरियं पकरेंति ?, गोअमा ! जहन्त्रेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं पंच, एवं जहा असुरकुमारा सदेवीया तहा जाव थणियकुमारा, अनंतरागया णं भंते! पुढविकाइया एगसमएणं केवइया अंतकिरिअं पकरेंति ?, गोअमा ! जहन्त्रेणं इक्को वा दो वा तिन्निवा उक्को सेणं चत्तारि, एवं आउकाइयावि, वणस्सइकाइया पंचेदियतिरिक्खजोणिया दस, पंचेदियतिरिक्खजोणिणी ओवि दस, मणुस्सा दस, मणुस्सीओ वीसं, वाणमंतरा दस, वाणमंतरीओ पञ्च, जोइसिया दस, जोइसिणीओ वीसं, वेमाणिया अट्ठसयं, वेमाणिणीओ वीस " मिति तत्त्वं पुनः केवलिनो बहुश्रुता वा विदन्ति । वेदद्वारे - पुरुषाणामष्टशतं, स्त्रीणां विंशतिः, दश नपुंसकाः, उक्तं च 'अट्ठसयं पुरिसाणं वीसं इत्थीण दस नपुंसाणं" तथा इह पुरुषेभ्य उद्धृता जीवाः केचित्पुरुषा एव जायन्ते केचित् स्त्रियः केचिन्नपुंसकाः, एवं स्त्रिभ्योऽप्युद्धृतानां भङ्गत्रयं, एवं नपुंसकेभ्योऽपि, सर्वसङ्ख्यया भङ्गा नव, तत्र ये पुरुषेभ्य उद्धृताः पुरुषा एव जायन्ते तेषामष्टशतं, शेषेषु चाष्टसु भङ्गेषु दश २, तथा चोक्तं सिद्धप्राभृते 'सेसा उ अट्ठ भंगा दसगं २ तु होइ एक्केक्कं' तीर्थद्वारे-तीर्थकृतो युगपदेकसमयेन उत्कर्षतश्चत्वारः सिध्यन्ति, दश प्रत्येकबुद्धाश्चत्वारः स्वयम्बुद्धा, अष्टशतमतीर्थकृतां, विंशतिः स्त्रीणां, तीर्थकर्यो । 66 लिङ्ग द्वारे गृहिलिङ्गे चत्वारः, अन्यलिङ्गे दश, स्वलिङ्गे अष्टशतं, उक्तं च- 'चउरो दस असयं गिन्नलिंगे सलिंगे य । चारित्रद्वारे सामायिकसूक्ष्मसम्पराययथाख्यातचारिताणां सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्राणां च प्रत्येकमष्टशतं, सामायिकपरिहारविशुद्धिकसूक्ष्मसम्पराययथाख्यातचारित्रिणां समायिकच्छेदोपस्थापन परिहारविशुद्धसूक्ष्मसम्पराययथाख्यातचारित्रिणा च दशकं २, उक्तं च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy