SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ मूलं-८६ ११३ अन्तरद्वारे जघन्यत एकसमयोऽन्तरं उत्कर्षतः षण्मासाः १२, निरन्तरद्वारे जघन्यतो द्वौ समयौ निरन्तरं सिध्यन्तः प्राप्यन्त उत्कर्षतोऽष्टौ समयान् १३, गणनाद्वारे जघन्यत एकस्मिन् समये एकः सिध्यति, उत्कर्षतोऽष्टाधिकं शतं, तथा चास्मिन् भरतक्षेत्रेऽस्यामवसप्पिण्यां भगवतः श्रीनाभेयस्य निर्वाणसमये श्रूयतेऽष्टोत्तरंशतमेकसमयेन सिद्धं, तथा चोक्तं सङ्घदासगणिना वसुदेवचरिते-'भयवं च उसभसामी जयगुरू, पुव्वसयसहस्सं वाससहस्सूणयं विहरिऊणं केवली अट्ठावयपव्वए सह दसहिं समणसहस्सेहिं परिनिव्वाणमुवगते चोद्दसणं भत्तेणं माघबहुले पक्खे तेरसीए अभीइणा नक्खत्तेणं एगूनपुत्तसएणं अट्ठहि य नत्तुएहिं सह एगसमएणं निव्वुओ, सेसाणवि अनगाराणं दस सहस्साणि अट्ठसयऊणगाणि सिद्धाणि, तंमि चेव रिक्खे समयंतरेसु बहूसु" इति १४, अल्पबहुत्वद्वारे युगपद् द्वित्रादिकाः सिद्धाः स्तोकाः, एककाः सिद्धाः सङ्घयेयगुणाः, उक्तं "संखाए जहन्नेणं एक्को उक्कोसएण अट्ठसयं । सिद्धाणेगा थोवा एगगसिद्धाउ संखगुणा ।। १५" तदेवं कृत्वा पञ्चदशस्वपिद्वारेषु सत्पदप्ररूपणा, सम्प्रति द्रव्यप्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्ध्वलोके युगपदेकसमयेन चत्वारः, सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यतो जलमध्ये तिर्यग्लोकेऽष्टशतं विशंतिपृथक्त्वमधोलोके, उक्तं च "चत्तारि उड्डलोए जले चउक्कं दुवे समुइंमि । अट्ठसयं तिरियलोए वीसपुहुत्तं अहोलोए।" तथा नन्दनवने चत्वारः, 'नंदने चत्तारीति वचनात्, एकतमस्मिस्तु विजये विंशतिः, उक्तं च सिद्धप्राभृतटीकायां-"वीसा एगयरे विजये" तथा सर्वास्वप्यकर्मभूमिषु प्रत्येकं संहरणतो दश २, पण्डकवने द्वौ, पञ्चदशस्वपि कर्मभूमिषु प्रत्येकमष्टशतं, उक्तं च "संकामणाए दसगं दो चेव हवंति पंडगवनंमि। समएण य अट्ठसयं पनरससु कम्मभूमिषु ।" कालद्वारे उत्सपिण्यामवपिण्यां च प्रत्येक तृतीये चतुर्थे चारकेऽष्टशतं, अवपिण्यां पञ्चमारके विंशतिः, शेषेष्वरकेषु प्रत्येकमुत्सपिण्यामवप्पिण्यां च संहरणतो दश २, तथा चोक्तं सिद्धप्राभृतटीकायां-"सेसेसुं अरएसु दस सिझंति, दोसुवि उस्सप्पिणीओसप्पिणीसु संहरणतो।" सिद्धप्राभृतसूत्रेऽप्युक्तम् - "उस्सप्पिणीओसप्पिणीतइयचउत्थयसमासु अट्ठसयं। पंचमियाए वीसं दसगं दसगं च सेसेसु ॥" गतिद्वारे-देवगतेरागतामष्टशतं, शेषगतिभ्य आगताः प्रत्येकं दश २, उक्तं च सिद्धप्राभृते'सेसाण गई दसदसगं' भगवांस्त्वार्यश्यामः पुनरेवमाह-नरकगतेरागता दश, तत्रापि विशेषचिन्तायां रत्नप्रभापृथिव्याः शर्कराप्रभाया वालुकाप्रभायाश्च पृथिव्या आगताः प्रत्येकं दश २, पङ्कप्रभायाः पृथिव्या आगताश्चत्वारः, तथा तिर्यग्गतेरागताः सामान्यतो दश, विशेषचिन्तानां पुनः पृथिवीकायेभ्योऽप्कायेभ्यश्चागताः प्रत्येकं चत्वारश्चत्वारः, वनस्पतिकायेभ्य आगताः | 30/8 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy