SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं वेदद्वारे प्रत्युत्पन्नयमधिकृत्यापगतवेद एव सिध्यति, तद्भवानुभूतपूर्ववेदापेक्षया तु सर्वेष्वपि वेदेषु, उक्तं च "अवगयवेओ सिज्झइ पच्चुप्पन्नं नयं पडुच्चा उ। सव्वेहिवि वेएहि सिज्झइ समईयनयवाया।" तीर्थकृतः पुनः स्त्रीवेदे पुरुपवेदेवा, न नपुंसकवेदे ४, तथा तीर्थद्वारे तीर्थकरतीर्थे तीर्थकरीतीर्थे च अतीर्थे च सिध्यन्ति । ५ लिङ्गद्वारे अन्यलिङ्गे गृहलिङ्गे स्वलिङ्गे वा, एतच्च सर्वं द्रव्यलिङ्गापेक्षया दृष्टव्यं, संयमरूपभावलिङ्गापेक्षया तु स्वलिङ्ग एव, उक्तं च- . "लिंगेन अन्नलिंगे गिहत्थलिंगे तहेव य सलिङ्गे। सव्वेहिं दव्वलिङ्गे भावेन सलिंग संजमओ ।।" ६, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथाख्यातचारित्रे, तद्भानुभूतपूर्वचरणापेक्षया तु केचित्सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनसूक्ष्मसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहारविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणः केचित्सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातचारित्रिणः, उक्तं च "चरणंमि अहक्खाए पच्चुप्पत्रेण सिज्झइ नएणं ।' पुव्वानंतरचरणे तिचउक्कगपंचगगमेणं ।।" तीर्थकृतः पुनः सामायिकसूक्ष्मसम्पराययथाख्यातचारित्रिण एव, बुद्धद्वारे प्रत्येकबुद्धाः स्वयम्बुद्धा बुद्धबोधिता बुद्धीबोधिता वा सिध्यनत् ८, ज्ञानद्वारे प्रत्युत्पन्ननयमपेक्ष्य केवलज्ञाने, तद्भवानुभूतपूर्वानन्तरज्ञानापेक्षया तु केचिन्मतिश्रुतज्ञानिनः केचिन्मतिश्रुतावधिज्ञानिनः केचिन्मतिश्रुतमनःपर्यायज्ञानिनः केचिन्मतिश्रुतावधिमनःपर्यायज्ञानिनः, तीर्थकृतस्तु मतिश्रुतवधिमन:पर्यायज्ञानिन एव ९, अवगाहनाद्वारे जघन्यायामपि अवगाहनायां सिध्यन्ति उत्कृष्टानां मध्यमायां च, तत्र द्विहस्तप्रमाणा जघन्या, पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणा उत्कृष्टा, सा च मरुदेवीकालवर्त्तिनामवसेया, मरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुल्या, तदुक्तं सिद्धप्राभृतटीकायां-'मरुदेवीवि आएसन्तरेण नाभितुल्ल'त्ति, तत आदेशान्तरापेक्षया मरुदेव्यामपि यथोक्तप्रमाणावगाहना दृष्टव्या, उक्तं च "उग्गाहणा जहन्ना रयणिदुर्ग अह पुणो उ उक्कोसा। पंचेव धनुसयाई धनुहपुहुत्तेण अहियाई ।।" . अत्र पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेह पञ्चविंशतिरूपं दृष्टव्यं, सिद्धप्राभृतटीकायां तथाव्याख्यानात्, तेन पञ्चविंशत्यधीकानीत्यवसेयं, शेषा त्वजघन्योत्कृष्टावगाहना, तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाणा उत्कृष्टा पञ्चधनुःशतमाना शेषा त्वजघन्योत्कृष्टा १०, . उत्कृष्टद्वारे सम्यक्त्वपरिभ्रष्टा उत्कर्षतः कियता कालेन सिध्यन्ति?, उच्यते, देशोनापार्द्धपुद्गलपरावर्तसंसारातिक्रमे, अनुत्कर्षतस्तु केचित्सवयेयकालातिक्रमे, केचिदसङ्ख्येयकालातिक्रमे केचिदनन्तेन कालेन ११, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy