________________
मूलं-८६
११७ बुद्धीबोधिता एव च सामान्यत: पुरुषादयः प्रत्येकं चतुरश्चतुर: समयान्, ज्ञानद्वारे-मतिश्रुतज्ञानिनो द्वौ समयौ, मतिश्रुतमनःपर्यायज्ञानिनश्चतुरस्समयान्, मतिश्रुतावधिज्ञानिनो मतिश्रुतावधिमनःपर्यायज्ञानिनो वाऽष्टावष्टौ समयान्, अवगाहनाद्वारे-उत्कृष्टायां जघन्यायां चावगाहनायांद्वौ द्वौ समयौ, यवमध्ये चतुरः समयान्, उक्तं च सिद्धप्राभृतटीकायां-'जवमज्झाए य चत्तारि समया' इति, अजघन्योत्कृष्टायां पुनरवगाहनायामष्टौ समयान, उत्कृष्टद्वारे अप्रतिपतितसम्यक्त्वा द्वौ समयौ, सङ्ख्येयकालप्रतिपतिता असङ्घयेयकालप्रतिपतिताश्चतुरः २ समयान्, अनन्तकालप्रतिपतिता अष्टौ समयान्, अन्तरादीनि चत्वारि द्वाराणि नेहावतरन्ति, ___ गतं मौलं पञ्चम् काल इति द्वारं, सम्प्रति षष्ठपन्तरद्वार-अन्तरं नाम सिद्धिगमनविरहकालः सच सकलमनुष्यक्षेत्रापेक्षया सत्पदप्ररूपणायामेवोक्तो, यथा जघन्यत एकसमय उत्कर्षतः षण्मासा इति, ततः इह क्षेत्रविभागतः सामान्यतो विशेषतश्चोच्यते-तत्र जम्बूद्वीपे धातकीखण्डे च प्रत्येकं सामान्यतो वर्षपृथक्त्वमन्तरं, जघन्यत एकसमयः, विशेषचिन्तायां-जम्बूद्वीपविदेहे धातकीखण्डविदेहयोश्चोत्कर्पतः प्रत्येकं वर्षपृथक्त्वमन्तरंजघन्यत एक समयः, तथा सामान्यतः पुष्करवरद्वीपे विशेषचिन्तायां च तत्रत्ययोर्द्वयोरपि विदेहयोः प्रत्येकमुत्कर्षतः साधिकं वर्षमन्तरं जघन्यत एकः समयः उक्तं च
"जम्बूद्वीवे धायइ ओहविभागे य तिसु विदेहेसुं।
- वासपहत्तं अंतर पुक्खरमुभयंपि वासहियं ॥" कालद्वारे-भरतेष्वैरावतेषु च जन्मत उत्कृष्टमन्तरं किञ्चिदूना अष्टादश सागरोपमकोटीकोट्यः, संहरणत: संख्येयानि वर्षसहस्राणि जघन्यतः पुनरुभयत्राप्येक: समयः
गतिद्वारे-निरयगतेरागत्योपदेश: सिध्यतामुत्कृष्टमन्तरं वर्षसहस्र हेतुमाश्रित्य प्रतिबोधसम्भवेन सिध्यतां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः तिर्यग्योनिकेभ्य आगत्योपदेशतः सिध्यतां संख्येयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येक: समयः तिर्यग्योनिकस्त्रीभ्यो मनुष्येभ्यो मनुष्यस्त्रीभ्यः सौधर्मेशानवर्जदेवेभ्यो देवीभ्यश्च पृथक् २ समागत्योपदेशतः सिध्यतां प्रत्येकमुत्कर्षतोऽन्तरंसातिरेकं वर्ष हेतुमाश्रित्य प्रतिबोधतः सिध्य्तां सङ्खयेयानि वर्षसहस्राणि, जघन्यतः पुनरुभयत्राप्येकः समयः, तथा पृथिव्यवनस्पतिभ्यो गर्भव्युक्रान्तेभ्यः प्रथमद्वितीयनरकपृथिवीभ्यामीशानदेवेभ्यः सौधर्मदेवेभ्यश्च समागत्योपदेशेन हेतुना च सिध्यतां प्रत्येकमुत्कृष्टमन्तरं सङ्खयेयानि वर्षसहस्राणि, पुरुषेभ्य उद्धृत्य पुरुषत्वेन सिध्यतां साधिकं वर्ष, शेषेषु चाष्टसु भङ्गकेषु प्रत्येकं सङ्घयेयानि वर्षसहस्राणि, जघन्यतः सर्वत्राप्येकः समयः,
तीर्थद्वारे-तीर्थकृतां पूर्वसहस्रपृथक्त्वं उत्कर्षतोऽन्तरं, तीर्थकरीणामनन्तः कालः, अतीर्थकराणां साधिकं वर्ष, नोतीर्थसिद्धानां सङ्घयेयानि वर्षसहस्राणि, नोतीर्थसिद्धाः प्रत्येकबुद्धाः, जघन्यतः सर्वत्रापि समयः उक्तं च --
"पुव्वसहस्सपुहुत्तं तित्थकरानंतकाल तित्थगरी।
. नोतित्थकरा वासाहिगं तु सेसेसु संखसमा।" एएसिं च जहन्नं समओ" 'संखसमत्ति' सङ्खयेयानि वर्षसहस्राणि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org