SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ नन्दी-चूलिकासूत्रं वोक्तं, न पञ्चविधमपि, मनःपर्यायदर्शनस्य परमार्थतोऽसम्भवादिति। तथा तानेव मनस्त्वेन परिणामितान् स्कन्धान विपुलमतिः अभ्यधिकतरान्-अर्द्धतृतीयांगुलप्रमाणभूमिक्षेत्रवर्तिभिः स्कन्धैरधिकतरान्, सा चाधिकतरता देशोऽपि भवति ततः सर्वासु दिक्षु अधिकतरताप्रातिपादनार्थमाह-विपुलतरकान्-प्रभूततरकान्, तथा विशुद्धतरान्-निर्मलतरान् ऋजुमत्यपेक्षयाऽतीव स्फुटतरप्रकाशानित्यर्थः, स च स्फुटः प्रतिभासो भ्रान्तोऽपि सम्भवति यथा द्विचन्द्रपतिभासः ततो भ्रान्तताशङ्काव्युदासाय विशेषणान्तमाह-वितिमिरतरकान्-विगतं तिमिरं-तिमिरसम्पाद्यो भ्रमो येषु ते वितिमिराः ततो 'द्वयोः प्रकृष्टे तरबिति'तरप्प्रत्ययः ततःप्राकृतलक्षणात् स्वार्थे कः प्रत्ययः, एवं पूर्वेष्वपि पदेषु यथायोग व्युत्पत्तिर्द्रष्टवा, वितिमिरतरकान्-सर्वथा भ्रमरहितान, अथवा अभ्यधिकतरकान् विपुलतरकानिति द्वावपि शब्दावेकार्थों, विशुद्धतरका वितिमिरतरकानेतावपि एकार्थों, नानादेशजा हि विनेया भवन्ति ततः कोऽपि कस्यापि प्रसिद्धो भवति तेषामनुग्रहार्थमेकाथिकपदोपन्यासः। तथा क्षेत्रतो णमिति वाक्यालङ्कारे ऋजुमतिरधो यावदस्या रत्नप्रभायाः पृथिव्या उपरितनाधस्तनान् क्षुल्लकप्रतरान्। अथ किमिदं क्षुल्लकप्रतर इति?, उच्यते, इहलोकाकाशप्रदेशा उपरितनाधस्तनदेशरहिततया विवक्षिता मण्डकाकारतया व्यवस्थिताः प्रतरमित्युच्यन्ते, तत्र तिर्यग्लोकस्योाधोऽपेक्षयाऽष्टादशयोजनशतप्रमाणस्य मध्यभागे द्वौ लघुक्षुल्लकप्रतरौ, तयोर्मध्यभागे जम्बूद्वीपे रत्नप्रभाया बहुसमे भूमिभागे मेरुमध्येऽष्टप्रादेशिको रुचकः, तत्र गोस्तनाकाराश्चत्वार उपरितनाः प्रदेशाश्चत्वारश्चाधस्तनाः, एष एव रुचकः सर्वासां दिशां विदिशां वा प्रवर्तकः, एतदेव च सकलतिर्यग्लोकमध्यं, तौ च द्वौ सर्वलघू प्रतरावंगुलासङ्घयेयभागबाहल्यावलोकसवर्तितौ रज्जुप्रमाणौ, तत एतयोरुपर्यन्येऽन्ये प्रतरास्तिर्यगुलासङ्ख्येयभागवृद्धा वर्द्धमानास्ताद्रव्यष्टव्या यावदूर्ध्वलोकमध्यं, तत्र पञ्चरज्जुप्रमाणः प्रतरः, तत उपर्यन्येऽन्ये प्रतरास्तिर्यगंगुलासङ्गयेयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते र प्रमाणः प्रतरः, इह ऊर्ध्वलोकमध्यवर्त्तिनं सर्वोत्कृष्टं पञ्चरज्जुप्रमाणं प्रतरमवधीकृत्यान्ये उपरितना अधस्तनाश्च क्रमेण हीयमानाः २ सर्वेऽपि क्षुल्लकप्रतरा इति व्यवहियन्ते यावल्लोकान्ते तिर्यग्लोको च रज्जुप्रमाणप्रतर इति, तथा तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकप्रतरस्याधस्तिर्यगंगुलासङ्खयेयभागवृद्धा वर्द्धमानाः २ प्रतरास्तावद्ववक्तव्या यावदधोलोकान्ते सर्वोत्कृष्टः सप्तरज्जुप्रमाणः प्रतरः, तं च सप्तरज्जुप्रमाणं प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः क्षुल्लकप्रतरा अभिधीयन्ते यावत्तिर्यग्लोकमध्यवत्ती सर्वलघुक्षुल्लकप्रतरः, एषा क्षुल्लकप्रतरप्ररूपणा। तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलघुरज्जुप्रमाणात् क्षुल्लकप्रतरादारम्य यावदधो नव योजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतरा: ते उपरितनक्षुल्लकप्रतरा भण्यन्ते, तेषामपि चाधस्ताद्ये प्रतरा यावदधोलौकिकग्रामेषु सर्वान्तिमः प्रतर: तेऽधस्तनक्षुल्लकप्रतराः, तान् यावदधः क्षेत्रत ऋजुमतिः पश्यति, अथवा अधोलोकस्योपरितनभागवर्त्तिनः क्षुल्लकप्रतरा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्तिप्रतरादारभ्य तावदयसेया यावत्तिर्यग्लोकस्यान्तिमोऽधस्तनप्रतरः, तथा तिर्यग्लोकस्य मध्यभागादारभ्याधोभागवर्तिनः, क्षुल्लकप्रतरा अधस्तना उच्यन्ते, तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् यावदृजुमतिः पश्यति, अन्ये त्वाहु: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy