________________
मूलं - ८२
इत्ति भणियं होइ, घडोऽणेण चितिओत्ति जाणइ 'त्ति । चशब्दः स्वगतानेकद्रव्यक्षेत्रादिभेदसूचकः । तथा विपुला - विशेषग्राहिणी मतिः विपुलमति:, धटोऽनेन चिन्तितः, स च सौवर्णः पाडलिपुत्रकोऽद्यतनो महान् अपवरकस्थितः फलपिहित इत्याद्यध्यवसायहेतुभूता प्रभूतविशेषविशिष्टमनो द्रव्यपरिच्छित्तिरित्यर्थः, आह च भाष्यकृत
"विपुलं वत्थुविसेसणनाणं तग्गाहिणी मई विपुला । चितियमनुसरइ घडं पसंगओ पज्जवसएहिं ॥"
चूण्णिकृदपि आह- " विपुला मई विपुलमई बहुविसेसगाहिणीत्ति भणियं होइ, दिट्टंतो जहाऽनेन घडो चिंतिओ, तं च देसकालाइ अनेगपज्जायविप्रेसविसिद्धं जाणइ 'त्ति । चशब्दः पूर्ववत्, अस्यां च व्युत्पत्तौ स्वतन्त्रमेव ज्ञानमभिधेयं, यदा पुनस्तद्वानभिधेयो विवक्ष्यते तदैवं व्यत्पत्तिःऋज्वी-सामान्यग्राहिणी मतिरस्य स ऋजुमतिः, तथा विपुला - विशेषग्राहिणी मतिरस्य स विपुलमतिः ।
तत् मनःपर्यायज्ञानं द्विविधमपि 'समासतः' संक्षेपेण चतुर्विधं प्रज्ञप्तं, तद्यथा-द्रव्यत: क्षेत्रतः कालतो भावतश्च,
तत्र द्रव्यतो णमिति वाक्यालङ्कारे ऋजुमतिरनन्तान् अनन्तप्रदेशिकान् अनन्तपरमाण्वात्मकान् स्कन्धान् - विशिष्टैकपरिणामपरिणतान् अर्द्धतृतीयद्वीपसमुद्रान्तर्वर्त्तिपर्याप्तसंज्ञिञ्चेन्द्रियैर्मनस्त्वेन परिणामितान् पुद्गलान् पुद्गलसमूहानित्यर्थः जानाति -साक्षात्कारेणावगच्छति 'पासइत्ति इह मनस्त्वपरिणतैः स्कन्धैरालोचितं बाह्यमर्थं घटादिलक्षणं साक्षादध्यक्षतो मन: पर्यायज्ञानी न जानाति, किन्तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तितोऽनुमानतः, आहच भाष्यकृत" जाणइ वज्झेऽनुमानेनं" इत्थं चैतदङ्गीकर्त्तव्यम्, यतो मूर्त्तद्रव्यालम्बनमेवेदं मनः पर्यायज्ञानमिष्यते, मन्तारस्त्वमूर्त्तमपि धर्म्मास्तिकायादिकं मन्यन्ते, ततोऽनुमानत एव चिन्तितमर्थमवबुध्यन्ते नान्यथेति प्रतिपत्तव्यम्, ततस्तमधिकृत्य पश्यीत्युच्यते, तत्र मनोनिमित्तस्याचक्षुर्दर्शनस्य सम्भवात्, आह च चूर्णिणकृत- "मुणियत्थं पुण पच्च्क्खओ न पेक्खइ, जेण मनोदवालंबनं मुत्तममुत्तं वा, सोय छउमत्थो तं अनुमानओ पेक्खइ, अतो पासणिया भणिया " इति ।
अथवा सामान्यत एकरूपेऽपि ज्ञाने क्षयोपशमस्य तत्तद्द्रव्याद्यपेक्ष्य वैचित्र्यसम्भवादनेकविध उपयोग: सम्भवति, यथाऽत्रैव ऋजुमतिविपुलमतिरूप:, ततो विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया जानातीत्युच्यते, सामान्यमनोरूपद्रव्याकारपरिच्छेदापेक्षया तु पश्यतीति, तथा चाह चूणिकृत - " अहवा छउमत्थस्स एगविहखओवसमलंभेऽवि विविहोवओगसंभवो भवइ, जहाएत्थेव ऋजुमइविपुलमईणं उवओगो, अओ विसेससामान्नत्थेसु उवजुज्जइ जाणइ पासइत्ति भणियं न दोसो" इति ।
अत्र 'एगविहखओवसमलंभेवि 'त्ति सामान्यत एकरूपेऽपि क्षयोपशमलम्भेऽपान्तराले द्रव्याद्यपेक्षया क्षयोपशमस्य विशेषसम्भवाद्विविधोपयोगसम्भवो भवतीति, तदेवं विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया सामान्यरूपमनोद्रव्याकारपरिच्छेदो व्यवहारतो दर्शन-रूप उक्तः, परमार्थत: पुनः सोऽपि ज्ञानमेव, यत: सामान्यरूपमपि मनोद्रव्यकारप्रतिनियतमेव पश्यति, प्रतिनियतविशेषग्रहणात्मकं च ज्ञानं न दर्शनम्, अत एव सूत्रेऽपि दर्शनं चतुर्विधमे
For Private & Personal Use Only
www.jainelibrary.org
१०५
Jain Education International
--