________________
१०४
नन्दी-चूलिकासूत्रं तइउप्पारण तओ इह जंघाचारणो एइ ।। पढमेणमानुसोत्तरनगं स नंदिस्सरं तु बिइएणं।
एइ तओ तइएणं कयचेइयवंदणो इहयं ।। पढमेण नंदनवने बिइउप्पाएण पंडगवनंमि।
एइ इहं तइएणं जो विज्जाचारणो होइ॥" तथा सर्वं-विण्मूत्रादिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति?-यस्य मूत्रं विट श्लेषमा शरीरमलो वा रोगोपशमसमर्थो भवति स सर्वोषधः, आद्यशब्दादामर्षोषध्वादिलब्धिपरिग्रहः, तथा आमोषध्यादीनामन्यतमामृद्धिमवध्य॒द्धि वा प्राप्तस्य मन:पर्यायज्ञानमुत्पद्यते, नानृद्धिप्राप्तस्य, अन्ये त्ववध्य॒द्धिप्राप्तस्यैवेति नियमामचक्षते, तदयुक्तं, सिद्धप्राभृतादाववधिमन्तरेणापि मनःपर्यायज्ञानस्यानेकशोऽभिधानात्। __ अत्राह-मनुष्याणामुत्पद्यते इत्युक्ते सामर्थ्यादमनुष्याणां नोत्पद्यते इत्यनुमीयते, ततः कथमुच्यते 'नो अमनुस्साणं उप्पज्जइ' इत्यादि, निरर्थकत्वाद् ?, उच्यते, इह त्रिधा विनेयाः, तद्यथाउद्घटतिज्ञा मध्यबुद्धयः प्रपञ्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलाः ते प्रपञ्चितमेवावगन्तुमीशते ततस्तेषामनुग्रहाय सामर्थ्यलभ्यस्यापि विपक्षनिषधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वादविशेषेण सर्वेषामनुग्रहाय प्रवर्त्तन्ते, ततो न कश्चिद्दोषः।
मू.(८२)तं च दुविहं उप्पज्जइ, तंजहा- उज्जुमई यविउलमई य, तंसमासओ चउब्वहं पन्नत्तं, तं जहा-दव्वओ खित्तओ कालओ भावओ,
तस्थ दव्वओ णं उज्जुमई णं अनंते अनंतपएसिए खंधे जाणइ पासइ ते चेव विउलभई अब्भहियतराए विउलतराए विसुद्धतराए वितिमिरतराए जाणइ पासइ,
खेत्तओ णं उज्जुमई अ जहन्नेणं अंगुलस्स असंखेज्जयभागं उक्कोसेणं अहे जाव इमेसे रयणप्पभाए पुढवीए उवरिमहेडिल्ले खुड्डगपयरे उड्ड़े जाव जोइसस्स उवरिमतले, तिरियं जात्र अंतोमनुस्सखित्ते अड्डाइज्जेसु दीवसमुद्देसु पनरस्सुकम्मभूमिसुतीसाए अकम्मभूमिसु छप्पन्नार अंतरदीवगेसु सन्निपंचेंदिआणं पज्जत्तयाणं मणोगए भावे जाणइ पासइ, तं चेव विउलमई अड्डाइज्जेहिमंगुलेहिं अब्भहिअतरं विउलतरं विसुद्धतरं वितिमिरतरागं जाणइ पासइ,
भावओ णं उज्जुमई अनंते भावे जाणइ पासइ सव्वभावाणं अनंतभागं जाणइ पासइ, त चेव विउलमइ अब्भहियतरागं विउलतरागं विसुद्धतरागं वितिमिरतरागं जाणइ पासइ
वृ.तत्र मनःपर्यायज्ञानमृद्धिप्राप्तानामप्रमत्तसंयतानामुत्पद्यमानं द्विधोत्पद्यते, तद्यथा-ऋजुमतिश्च विपुलमतिश्च, तत्र मननंमतिः, संवेदनमित्यर्थः, ऋज्वी-सामान्यग्राहिणी मतिः ऋजुमतिः धटोऽनेन चिन्तित इत्यादिसामान्यकाराध्यवसायनिबन्धनभूता कतिपयपर्याविशिष्टमनोद्रव्यपरिच्छित्तिरित्यर्थः, उक्तं च भाष्यकृता
"रिजु सामन्नं तम्मत्तगाहिणी रिजमई मनोनाणं।
पायं विसेसविमुहं घटमित्तं चिंतियं मुणइ ।।" चूर्णिकृदप्याह-"उज्जुनं विसेसविमुहं उवलहई, नाईव बहुविसेसविसिटुंअत्थं उवलम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org