________________
१०३
मूलं-८१
प्रादुर्भवन्ति गुणतो बलानि वा मानसादीनि।।' अत्र स इति अप्रमत्तयतिः 'मानसपर्याय'मिति मानसाः-मन:सम्बन्धिनः पर्याया विषयो यस्य तन्मानसपर्यायं, मनःपर्यायज्ञानमित्यर्थः, 'कोष्ठादिवृद्धिर्वे'ति अत्रादिशब्दात्यदानुसारिबीजप्ररिग्रहः, तिस्रो हि बुद्धयः परमातिशयरूपाः प्रवचने प्रतिपाद्यन्ते, तद्यथा-कोष्ठबुद्धि: पदानुसारिणीबुद्धि: बीजबुद्धिश्च, तत्र कोष्ठइव धान्यं या बुद्धिराचार्यमुखाद्विनिर्गतौ तदवस्थावेव सूत्रार्थों धारयति, न किमपि तयोः सूत्रार्थयो: कालान्तरेऽपि गलति सा कोष्ठबुद्धिः, या पुनरेकमपि सूत्रपदमवधार्य शेषमश्रुतमपितदवस्थमेव श्रुतमवगाहते सा पदानुसारिणी, या पुनरेकर्मथपदं तथाविधमनुसृत्य शेषमश्रुतमपि यथावस्थितं प्रभूतमर्थमवगाहते सा बीजबुद्धिः, सा च सर्वोत्तमा प्रकर्षप्राप्ता भगवतां गणभृतां, ते हि उत्पादादिपदत्रयमवधार्य सकलमपि द्वादशाङ्गात्मकं प्रवचनमभिसूत्रयन्ति, तथा चारणाश्च वैक्रियं च सर्वोषधश्च चारणवैक्रियसौषधाः तद्भावः चारणवैक्रियसौषधता, तत्र चरणं-गमनं तद्विद्यते येषां ते चारणा 'ज्योत्स्नादिभ्योऽण्' इति मत्वर्थीयोऽण्प्रत्ययः, तत्र गमनमन्येषामपि मुनीनां विद्यते ततो विशेषणान्यथानुपपत्त्या चरणमिह विशिष्टं गमनमभिगृह्यते, अत एवातिशायने मत्वर्थीयो, यथा रूपवती कन्येत्यत्र, ततोऽयमर्थःअतिशयचरणसमर्थाश्चारणः, तथा चाह भाष्यकृत् स्वाभाष्यटीकायां-अतिशयचरणाच्चारणाः, अतिशयगमनादित्यर्थः,
ते च द्विधा-जङ्घाचारणा विद्याचारणाश्च, तत्र ये चारित्रपोविशेषप्रभावतः समुद्भूतगमनविषयलब्धिविशेषास्ते जङ्घाचारणाः, ये पुनर्विद्यावशतः समुत्पन्नगमनागमनलब्ध्यतिशया: ते विद्याचारणाः, जनाचारणास्तु रुचकवरद्वीपं यावदगन्तं समर्थाः विद्याचारणा नन्दीश्वरं तत्र जमाचारणा यत्र कुत्रापि गन्तुमिच्छवः तत्र रविकरानपि निश्रीकृत्य गच्छन्ति विद्याचारणास्त्वेवमेव, जमाचारणश्च रुचकवरदीपं गच्छन्नैकेनैवोत्पातेन गच्छति, प्रतिनिवर्तमानस्त्वेकेनोत्पातेन नन्दीश्वरमायाति द्वितीयेन स्वस्थानं, यदि पुनर्मेरुशिखरंजिगमिपुस्तहि एकेनैवोत्पातेन पण्डकवनमधिरोहति, प्रतिनिवर्तमानस्तु प्रथमेनोत्पातेन नन्दनवनमागच्छति द्वितीयेन, जङ्घाचारणो हि चारित्रातिशयप्रभावतो भवति ततो लब्ध्युपजीवने औत्सुक्यभावतः प्रमादसम्भवाच्चारित्रतिशयनिबन्धना लब्धिरपहीयते ततः प्रतिनिवर्तमानो द्वाभ्यामुत्पाताभ्यां स्वस्थानमयायाति, विद्याचरणः पुनः प्रथमेनोत्पातेन मानुषोत्तरं पर्वतं गच्छति द्वितीयेन तु नन्दीश्वरं, प्रतिनिवर्तमानस्त्यकेनैवोत्पातेन स्वस्थानमायाति, तथा मेरुं गच्छन् प्रथमेनोत्पातेन नन्दनवनं गच्छति द्वितीयेन पण्डकवनं, प्रतिनिवर्तमानस्त्वेकेनैवोत्पातेन स्वस्थानमायाति, विद्याचरणो हि विद्यावशाद्भवति, विद्या च परिशील्यमाना स्फुटा स्फुटतरोपजायते, ततः प्रतिनिवर्तमानस्य शक्त्यतिशयसम्भवादेकेनोत्पातेन स्वस्थानागमनमिति, उक्तं च
"अइसयचरणसमत्था जंघाविज्जाहि चारणा मनुओ।
जंघाहि जाइ पढमो नीसं काउं रविकरेऽवि ॥ एगप्पाएणं गओ रुयगवरंमि उ तओ पडिनियत्तो।
बिइएणं नंदिस्सरमिहं तओ एइ तइएणं ।। पढमेण पंडगवनं बिइउप्पाएण नंदनं एइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org