________________
मूलं-८२
१०७ अधोलोकस्योपरिवर्त्तिन उपरितनाः, ते च सर्वतिर्यग्लोकवर्त्तिनो यदिवा तिर्यग्लोकस्याधो नवयोजनशतवतिीनो दृष्टव्याः, ततः तेषामेवोपरितानां क्षुल्लकप्रतराणां सम्बन्धिनो ये सर्वान्तिमाधस्तानाः क्षुल्लकप्रतरा: तान् यावत्पश्यति, अस्मिश्च व्याख्याने तिर्यग्लोकं यावत्प-- श्यतीत्यापद्यते, तच्च न युक्तम्, अधोलौकिकग्रामवर्त्तिसंज्ञिपञ्चन्द्रियमनोद्रव्यापरिच्छेदप्रसङ्गात्, अथवा अधोलोकिकग्रामेष्वपि संज्ञिपञ्चेद्रियमनोद्रव्याणि परिच्छिनत्ति, यत उक्तम्
"इहाधोलौकिकान ग्रामान्, तिर्यग्लोकविवर्तिनः ।
- मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्तिनामपि।।। तथा-ऊर्ध्वं यावज्ज्योतिश्चक्रस्योपरितलस्तिर्यग् यावदन्तोमनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, एतदेव व्याचष्टे-अर्द्धतृतीयेषु द्वीपेषु पञ्चदशसु कर्मभूमिपु त्रिंशति चाकर्मभूमिपु पट्पञ्चाशत्सङ्घयेषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते न च तैरिहाधिकारः ततो विशेषणमाह-पञ्चेन्द्रियाणां, पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिसमाप्तौ मनःपर्याप्ता अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनमतो विशेषणान्तरमाहपर्याप्तानाम्, अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते ततस्तद्व्यवच्छेदार्थ पञ्चेन्द्रियग्रहणं, ते चापपर्याप्तका अपि भवन्ति तदध्यवच्छेवार्थं पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिरद्धं तृतीयं येषु तान्यर्द्धतृतीयानि अंगुलानि तानि च ज्ञानाधिकारादुच्छ्यांगुलानि द्रष्टव्यानि, यत उक्तंचूण्णिकृता"अड्डाइयंगुलग्गहणमुस्सेहंगुलमाणओ नाणविसयत्तणओ य न दोसो"त्ति, तैरर्द्धतृतीयैरंगुलैरभ्यधिकतरं, तच्चैकदेशमपि भवति तत आह-विपुलतरं-विस्तीर्णतरं, अथवा आयामविष्कम्भाभ्यामभ्यधिकरतरं बाहुल्यमाश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरमिति प्राग्वत्, जानाति पश्यति तात्स्थयात्तद्व्यपदेश इति तावत्क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । यावदुक्तस्वरूपमन:पर्यायज्ञानप्रतिपादिका गाथा, तस्या व्याख्यामू. (८३) मनपज्जनाणं पुन जनमनपरिचिंतिअत्थपागडणं।
मानुसखित्तिनिबद्धं गुणपच्चइअं चरित्तवओ॥ वृ. मनःपर्यायज्ञानं-प्राग्निरूपितशब्दार्थं, पुनःशब्दो विशेषणार्थः, स च रूपिविपयत्वक्षायोपशमिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मन:पर्यायज्ञानं स्वाम्यादिभेदादिभन्नमिति विशेषयति, तथाहि-अवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविषयं क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च कालतोऽतीतानागतासङ्घयेयोत्सप्पिणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविषयं, मन:पर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामर्षाध्याद्यन्यतमर्द्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्यक्षेत्रगोचरं कालतोऽतीतानागतपल्योपमासङ्खयेयभागविषयं भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं, ततोऽवधिज्ञानाद्भिन्नं, एतदेवलेशत: सूत्रकृदाह-'जनमनः परिचिन्तितार्थप्रकटनं' जायन्ते इति जानेस्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थ: तं प्रकटयति-प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं, न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनोविषयमित्यर्थः, तथा गुणाः- क्षान्त्यादयस्ते प्रत्ययः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org