________________
अध्ययनं-२४,[नि. ४६३]
वृ. सूत्रत्रयं प्रकटार्थमेव, नवरं 'समिति'त्ति समितयः 'गुत्ति'त्ति गुप्तयः, तत्र च समितिःसम्यक्-सर्ववित्प्रवचनानुसारितया इतिः-आत्मनः चेष्टा समितिः तान्त्रिकी सञ्ज्ञा ईर्यादिचेष्टासु पञ्चसु, गोपनं गुप्तिः-सम्यग्योगनिग्रहः तथैव चेति समुच्चये, उक्तं हि-'सम्यग्योगनिग्रहो गुप्ति'रिति भवन्त्वेताः प्रवचनमाताः, अष्टसङ्ख्यत्वं तु कथमासामिति संशये समितिना पञ्चत्वं गुप्तीना च त्रिकत्वमुक्तम् 'आहिया' इति आख्याता:-कथिताः, तीर्थकृदादिभिरिति गम्यते, ता एव नामग्राहमाह-ईरणमीर्या-गतिपरिणामो भाषणं तं करोतीति निक ततः स्त्रीलिङ्गे भावे युटि एषणा आदानं-ग्रहणं प्रातादेः निक्षेपेपलक्षणमेतत् तत एषां समाहारे ईर्याभाषैषणादानं तस्मिन्, ‘उच्चारे समिई इय'त्ति चस्य भिन्नक्रमत्वादुच्चारशब्दस्य चोपलक्षणत्वादुच्चारादिपरिष्ठापनायां च समितिः, अस्य च प्रत्येकमभिसम्बन्धादीर्यासमितिरित्यादिरभिलापो विधेयः, 'इति' परिसमाप्तौ, एतावत्य एव समितयः, तथा मनसो गुप्तिर्मनोगुप्तिरिति तत्पुरुषः, एवमुत्तरयोरपि, निगमनमाह___ 'एताः' इत्यनन्तरोक्ताभिधाना अष्ट समितयो, गुप्तीनामपि 'प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं गुप्ति'रिति वचनात्कञ्चित्सच्चेष्टात्मकत्वात्समितिशब्दवाच्यत्वमस्तीत्येवमुपन्यासः, यत्तु भेदेनोपादानं तत्समितिनां प्रवीचाररूपत्वेन गुप्तीनां प्रवीचाराप्रवीचारात्मकत्वेनान्योऽन्यं कथञ्चिद्भेदात्, तथा चागमः
"समिओ नियमा गुत्तो गुत्तो समियत्तणं भइयव्वो।
___कुसलवइमुदीरंतो जं वइगुत्तोऽवि समिओऽवि॥" 'समासेन' सकलागमसंग्रहेण व्याख्याताः, जिनाख्यातं मातम् उत्तरत्र तुशब्दस्यैवकारार्थस्य भिन्नक्रमत्वात् 'मातमेव' अन्तर्भूतमेव 'यत्र' इति यासु प्रवचनम्' आगमः, तथाहि-ईर्यासमितौ प्राणातिपातविरमणव्रतमवतरति, तद्वृत्तिकल्पनानि च शेषव्रतानि तत्रैयान्तर्भावमुपयान्ति, तेषु च न तदस्ति यन्न समवतरति, यत उक्तम्
"पढमंमि सव्वजीवा बीए चरिमे य सव्वदव्वाई।
सेसा महव्वया खलु तदेक्कदेसेण नायव्वा॥" इत्यर्थतः सर्वमपि प्रवचनमिह मातमुच्यते, भाषासमितिस्तु सावधवचनपरिहारतो निरवद्यवचोभाषणात्मिका तया च वचनपर्याय: सकलोऽप्याक्षिप्त एव, न च तद्बहिर्भूतं द्वादशाङ्गमस्ति, एवमेषणासमित्यादिष्वपि स्वधिया भावनीयं, यद्वा सर्वा अप्यमूश्चारित्ररूपाः, ज्ञानदर्शनाविनाभावि च चारित्रं, न चैतत्रयातिरिक्तमन्यदर्थतो द्वादशाङ्गमिति सर्वास्वप्येतासु प्रवचनं मातमुच्यते, अन्यथा वाऽऽगमाविरोधेनाभिधेयमिति सूत्रत्रयार्थः। तत्रेर्यासमितिस्वरूपमाहमू. (९३९) आलंबनेनं कालेणं, मग्गेण जयणाइ य।
चउकारणपरिसुद्धं, संजए इरियं रिए। मू.(९४०) . तत्थ आलंबणं नाणं, दंसणं चरणं तहा।
काले य दिवसे वुत्ते, मग्गे उप्पहवज्जिए॥ मू. (९४१) दव्वओ खित्तओ चेव, कालओ भावओ तहा।
जयणा चउव्विहा वुत्ता, तं मे कित्तयओ सुण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org