SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ९० उत्तराध्ययन-मूलसूत्रम्-२-२४/९३६ नि.[४६०]. जाणगसरीरभविए तव्वइरित्ते कुतित्थिमाईसु । भावे दुवालसंगं गणिपिडगं होइ नायव्वं ।। नि.[४६१] मायंमि उ निक्खेवो चउव्विहो दविहो० ॥ नि.[४६२] जाणगसरीरभविए तव्वइरित्ते अभायणे दव्वं । भावंमि अ समिईओ मायं खलु पवयणं जत्थ ।। वृ. निक्खेवेत्यादि गाथाश्चतस्रः, निक्षेपः प्रवचने चतुर्विधो-नामादिः, तत्र नामस्थापने क्षुन्नने एवेत्यनादृत्य द्रव्यनिक्षेपमाह-द्विविधो भवति 'द्रव्ये' विचार्ये, निक्षेप इति गम्यते, 'द्वैविध्यमेवाह-आगमतो नोआगमतः, तत्रागमतो ज्ञाता तत्र चानुपयोगवान्, नोआगमतस्तु स त्रिविधः । कथमित्याह-'जाणगसरीरभविए तव्वतिरित्ते य'त्ति, ज्ञशरीरभव्यशरीरे प्रक्रमात्प्रवचने तद्व्यतिरिक्तं 'कुतित्थिमाईसुत्ति कुतीर्थ्यादिषु प्रवचनमादिशब्दात्सुतीर्थेषु च ऋषभादिसम्बन्धिषुपुस्तकादिन्यस्तं भाष्यमाणं वा, भावे 'द्वादशाङ्गम्' आचारादिदृष्टिवादपर्यन्तं गणिन:आचार्यास्तेषां पिटकमिव पिटकं-सर्वस्वाऽऽधारो गणिपिटकं भवति' ज्ञातव्यं प्रवचनं, नन्येवं दृष्टिवादान्तर्गतत्वात्सकलकुदृटीनामपि भावप्रवचनतैव प्राप्ता?, उच्यते, अस्त्येतत्, किन्त्वेकपक्षावधारणपरतयाऽसदृष्टित्वाद्रव्यप्रवचनतैवाऽऽसामिति नोक्तदोषापत्तिः॥ मातशब्दं निक्षेप्तुमाह-'माते' मातशब्दे 'तुः' पूरणे निक्षेपश्चतुर्विधो-नामादिः, द्विविधो भवति द्रव्ये-आगमनोआगमतः, तत्रागमतस्तथैव, नोआगमतश्च स त्रिविधो-ज्ञशरीरभव्यशरीरे तद्व्यतिरिक्तं च 'भाजने' कांस्यप्रात्रादौ 'द्रव्यम्' मोदकादि, प्रस्तावाद्यत्र मातम्-अन्तः प्राप्तावस्थिति तद्रव्यं मातमुच्यते, भावे च समितयः' ईर्यासमित्यादयो माता अभिधीयन्ते 'मातम्' अन्तरवस्थितं 'खलु'निश्चितं 'प्रवचनं' द्वादशाङ्गं 'यत्र' इति यासु। तदेवं नियुक्तिकृतामातशब्दो निक्षिप्तः, यदा तु माय'त्ति पदस्य मातर इति संस्कारस्तदा द्रव्यमातरो जनन्यो भावमातरस्तु समितयः, एताभ्यः प्रवचनप्रसवात्, उक्तं हि-"एया पवयणमाया दुवालसंगं पसूयातो"त्ति, सुज्ञानत्वाच्च एतन्निक्षेप उपेक्षित इति गाथाचतुष्टयार्थः । सम्प्रति नामान्वर्थमाहनि.[४६३] अट्ठसुवि समिईसु अदुवालसंगं समोअरइ जम्हा। तम्हा पवयणमायाअज्झयणं होइ नायव्वं ॥ वृ. 'अष्टास्वपि' अष्टसङ्ख्यास्वपि समितिषु 'द्वादशाङ्गं' प्रवचनं समवतरति-संभवति यस्मात्, ताश्चेहाभिधीयन्त इति गम्यते, तस्मात्प्रवचनमाता प्रवचनमातरो वोपचारत इदमध्ययनं 'भवति' ज्ञातव्यमिति गाथार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपावसरः, स च सूत्रे सति भवतीति सूत्रानुगमे सूत्रमच्चारणीयं, तच्चेदम्मू. (९३६) अट्ठप्पवयणमायाओ, समिई गुत्ती तहेव य। पंचेव य समिईओ, तओ गुत्तीउ आहिया। मू. (९३७) इरियाभासेसणादाने, उच्चारे समिई इय। मनगुत्ती, वयगुत्ती, कायगुत्ती उ अट्ठमा॥ मू. (९३८) एयाओ अट्ठ समिईओ, समासेन वियाहिया। दुवालसंगं जिनक्खायं, मायं जत्थ उ पवयणं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy