________________
८९
अध्ययनं-२३,[ नि. ४५८] कोऽर्थः ?-आद्यस्य सोपस्कारत्वात्सूत्रस्य तीर्थकृतोऽभिमते 'पश्चिमे' पश्चिमतीर्थकृत्सम्बन्धितया 'मार्गे' पथि 'तत्रे'ति प्रक्रान्ते तत्र वा तिन्दुकोद्याने 'शुभावहे' कल्याणप्रापके मार्गस्य विशेषणमिति सूत्रद्वयार्थः ।।
सम्प्रत्यध्ययनार्थोपसंहारव्याजेन महापुरुषसङ्गमफलमाहमू. (९३४) केसीगोअमओ निच्चं, तंमि आसि समागमे।
सुयसीलसमुक्करिसो, महत्थत्थविनिच्छओ। वृ. केसिगौतमत' इति केशिगौतमावाश्रित्य 'नित्यं' सदा तत्पुर्यवस्थानापेक्षया तस्मिन्' प्रक्रान्तस्थाने आसीत् 'समागमे' मीलके, किमासीदित्याह-श्रुतं-श्रुतज्ञानं शीलं-चारित्रं तयोः समुत्कर्षः-प्रकर्षः श्रुतकीलसमुत्कर्पः, तथा महार्था-महाप्रयोजना मुक्तिसाधकत्वेन येऽर्थाःशिक्षाव्रतादयस्तेषां विनिश्चयो-विशिष्टो निर्णयो महार्थार्थविनिश्चयः, तच्छिष्याणामिति गम्यते, 'केसि'त्ति सुब्लोपात्केशेर्वा गौतमत: गौतमगणधरापेक्षयाऽपकर्षवत् श्रुतादिमत्त्वादित्थमुक्तम्, इदं तु क्वचिद् दृष्टमिति व्याख्यातमिति सूत्रार्थः ।। शेषपर्षदो यदभूत्तदाह
मू.(९३५-१) तोसिआ परिसा सव्वा, संमग्गं समुवट्ठिया।
वृ. 'तोषितां' परितोषं नीता परिषत्' सदेवमनुजासुरा सभा 'सर्वा' निरवशेषा 'सन्मार्ग' मुक्तिपथमनुष्ठातुमिति गम्यते, 'समुपस्थिता' पाठान्तरतः ‘पर्युपस्थिता' वा उभयत्रोद्यता, अने काक्वा पर्षदफलमाह।। इत्थं सद्भूतगुणगर्भसच्चरित्रवर्णनद्वारेण तयोः स्तवनमुक्त्वा प्रणिधानमाह
मू. ( ९३५-२) मथुया ते पसीयंतु, भयवं केसी गोयमु॥त्तिबेमि।
वृ. संथुएत्युत्तरार्द्ध । 'संस्तुतौ' सम्यगभिवन्दितौ 'तौ' उक्तरूपौ 'प्रसीदतां' प्रसादपरौ भवतां भगवत्केशिगौतमाविति सूत्रार्थः। । 'इति' परिसमाप्तौ, ब्रवीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वत् ।।
अध्ययनं - २३-समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे त्रयोविंशतितमध्ययनं भद्रबाहुसूरिरचिता नियुक्तिः एवं शान्त्याचार्यरचिता टीका परिसमाप्ता
(अध्ययनं-२४-प्रवचनमाता) वृ.व्याख्यातं त्रयोविंशतमध्ययनं, सम्प्रति चतुर्विंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने परेषामपि चित्तविप्लुतिमुपलभ्य तदपनयनाय केशिगौतमवद्यतितव्यमित्युक्तम्, इह तु तदपनयनं सम्यग्वाग्योगत एव, सच प्रवचनमातृस्वरूपपरिज्ञानत इति तत्स्वरूपमुच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य चोपक्रमादिचतुरनुयोगद्वारचर्चा प्राग्वत्सुकरैव यावनामनिष्पन्ननिक्षेपे प्रवचनमातृ प्रवचनमातमिति वा द्विपदं नाम, तत्र तावत्प्रवचननिक्षेपाभिधानायाह नियुक्तिकृत्नि.[ ४५९] निक्खेवु पवयणमि(य) चउव्विहो दुविहो य होइ दव्वंमि।
आगमनोआगमओ नोआगमो असो तिविहो ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org