________________
उत्तराध्ययन- मूलसूत्रम् - २-२४ / ९४२ दव्वओ चक्खुसा पेहे, जुगमित्तं च खित्तओ । कालओ जाव रीइज्जा, उवउत्तो य भावओ ॥ इंदियत्थे विवज्जित्ता, सज्झायं चेव पंचहा । तम्मुत्ती तत्पुरक्कारे, उवउत्ते रियं रिए ।
मू. (९४३ )
वृ. आलम्बनेन कालेन मार्गेण यतनया च चतुष्कारणैः- एभिरेवालम्बनादिभिः परिशुद्धानिर्दोषा चतुष्कारणपरिशुद्धा तां 'संयतः ' यतिः 'इर्यां' गतिं 'रिये 'त्ति रीयेत अनुष्ठानविषयतया प्राप्नुयात्, यद्वा सुब्व्यत्ययाच्चतुष्कारणपरिशुद्धया ईर्यवा 'रीयेत' गच्छेत् । आलम्बनादीन्येव व्याख्यातुमाह-'तत्र' तेष्वालम्बनादिषु मध्ये आलम्बनं यदालम्ब्य गमनमनुज्ञायते, निरालम्बनस्य हि नानुज्ञातमेव गमनं, तत्किमित्याह - 'ज्ञानं' सूत्रार्थोभयात्मकागमरूपं 'दर्शनं' दर्शनप्रयोजनं (शास्त्रं) 'चरणं' चारित्रं, तथाशब्दोऽनुक्तसमुच्चयार्थः, तेन द्वित्रादिभङ्गसूचकः, ततोऽयमर्थःप्रत्येकं ज्ञानादीन्याश्रित्य द्विकादिसंयोगतो वा गमनमनुज्ञातम्, आलम्बनेनेति व्याख्यातं, कालेनेति व्याचष्टे कालश्च प्रस्तावादीर्याया दिवस उक्तः, तीर्थकृदादिभिरिति गम्यते, रात्रौ ह्यचक्षुर्विषयत्वेन पुष्टतरालम्बनं विना नानुज्ञातमेव गमनं, मार्गेणेति द्वारं व्याख्यातुमाह-मार्ग इम सामान्येन पन्था: स उत्पथेन-उन्मार्गेण वर्जितो-रहित उत्पथवर्जित उक्त इति सम्बन्धः, उत्पथे हि व्रजत आत्मसंयमविराधनादयो दोषाः ।
1
यतनेति वुवूर्षराह- 'दव्वतो' इत्यादि, सुगममेव, नवरं 'ताम्' इति चतुर्विधयतनां मे 'कीर्त्तयतः' सम्यक्स्वरूपाभिधानद्वारेण संशब्दयतः 'शृणु' आकर्णय शिष्येति गम्यते । यथाप्रतिज्ञामेवाह-'द्रव्यत' इति जीवादिकं द्रव्यमाश्रित्येयं यतना - यत् 'चक्षुषा' दृष्टया 'प्रेक्षेत' अवलोकयेत्, प्रक्रमाज्जीवादिकं द्रव्यम्, अवलोक्य च संयमात्मविराधनापरिहारेण गच्छेदिति भाव:, 'युगमात्रं च' चतुर्हस्तप्रमाणं प्रस्तावात्क्षेत्रं प्रेक्षेत, इयं क्षेत्रतो यतना, कालतो यतना यावत् 'रीयिज्ज' त्ति रीयते यावन्तं कालं पर्यटन्ति तावत्कालमानेति गम्यते, उपयुक्तश्च भावतोदत्तावधानो यद्रीयते, इयं भावमङ्गीकृत्य यतना ।
उपयुक्तत्वमेव स्पष्टयितुमाह- 'इन्द्रियार्थान्' शब्दादीन् 'विवर्ज्य' तदनध्यवसानतः परिहृदय, स्वाध्यायं चैव 'च: ' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः न केवलमिन्द्रियार्थान् विवर्ज्य किन्तु स्वाध्यायं चापि 'पञ्चधे 'ति वाचनादिभेदतः पञ्चप्रकारं, गत्युपयोगोपधातित्वात्, ततश्च तस्यामेवेर्यायां मूर्त्तिः - शरीरमर्थाद्वयाप्रियमाणा यस्यासौ तन्मूर्त्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाङ्गीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोक्ता, वचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीर्वां रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः ॥ सम्प्रति भाषासमितिमाहमू. (९४४ ) कोहे माने य माया य, लोभे य उवउत्तया । हासे भय मोहरिए, विगहासु तहेव य ॥ एयाइं अट्ठ ठाणाई, परिवज्जित्तु संजओ । असावज्जं मियं काले, भासं भासिज्ज पन्नवं ॥
मू. (९४५)
वृ. क्रोधे माने च मायायां लोभे च 'उपयुक्तता' क्रोधाद्युपयोगपरता तदेका यतनेतियावत्,
For Private & Personal Use Only
www.jainelibrary.org
९२
मू. (९४२ )
-
Jain Education International