________________
८६
उत्तराध्ययन-मूलसूत्रम्-२-२३/९१४ सूत्रचतुष्टयार्थः॥ मू.(९१५) साह गोयम! पन्ना ते, छिन्नो मे संसओ इहो।
अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!॥ वृ. साहुसूत्रमुक्तार्थम् । इदानीं संसारपारगमनाख्यं दशमद्वारमाश्रित्याहमू.(९१६)
___ अन्नवंसि महोहसि, नावा विपरिधावई।
जंसि गोयममारूढो, कहं पारंगमिस्ससी? ॥ मू. (९१७) जा उ अस्साविणी नावा, न सा पारस्स गामिणी।
जा निरस्साविणी नावा, सा उपारस्स गामिणी। मू. (९१८) नावा अ इइ का वुत्ता?, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी॥ मू.( ९१९) सरीरमाहु नावत्ति, जीवो वुच्चइ नाविओ।
संसारो अन्नवो वुत्तो, जंतरंति महसेणिो॥ वृ. सूत्रचतुष्टयं, 'अन्नवंसि महोहंसि'त्ति, 'अर्णवे' समुद्रे 'महौधे' बृहज्जलप्रवाहे 'नावा विपरिधावई'त्ति 'नौः' द्रोणी विपरिधावति' विशेषेण समन्तादगच्छति, 'यां' नावम 'असि' भवसि, यस्यां वा नाविहे गौतम! 'आरुढः' चटितस्त्वमिति गम्यते, ततः कथं' केन प्रकारेण 'पारं' पर्यन्तं प्रक्रमादर्णवस्य 'गमिष्यसि?' यास्यसि?, न कथञ्चिदिति प्रष्टराशयः । गौतम आह-'जा उ'त्ति या 'तुः' पूरणे आश्राविनी-जलसंग्राहिणी पाठान्तरतः साश्राविनी वासहाश्राविभिः-जलप्रवेशान्तिवतैः प्रक्रमात्सन्धिभिर्वर्तत इतिकृत्वा 'नौः' द्रोणी न सा 'पारस्य' प्रस्तावात्समुद्रपर्यन्तस्य 'गामिनी' अवश्यंयायिनी, 'जा निरस्साविनी'त्ति उत्तरत्र तुशब्दस्य भिन्नक्रमत्वाद् द्या पुनर्निष्क्रान्ता आश्राविभ्यः प्राग्वत् सन्धिभ्यो निराश्राविनी नौः सा 'पारस्य' उक्तरूपस्य 'गामिनी' अवश्यं पारप्रापिका, ततोऽहं निराश्राविनीमारूढ उपायतः पारगाम्येव भविष्यामीति भावः।
'नावे'त्यादि प्रतीतार्थं, नवरं नावस्तरणत्वात्तरिता तार्यं च पृष्टमेवात एवोत्तरमाह-शरीरम् 'आहुः' ब्रुवते नौरिति, तस्यैव सम्यग्दर्शनादि त्रयानुष्ठानहेतुतया, भवोदधिनिस्तारकत्वाज्जीवः 'उच्यते' प्रतिपाद्यते तीर्थकृद्भिरिति शेषो नाविकः, स ह्युक्तरूपया नावा भवोदधिंतरतीति, संसार: 'अर्नवः' समुद्र उक्तः, तस्यैव तत्त्वतस्तार्यत्वात्, 'यं' संसारमर्णवप्रायं तरन्ति 'महेसिणो'त्ति प्राग्वन्महदेषिणो महर्षयो वा, तदा च तथाविधमहर्षीणां प्रत्यक्षत्वात् श्रोतृप्रतीत्यर्थमेतदिति सूत्रचतुष्टयार्थः ।। मू. (९२०) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
____ अन्नोऽविसंसओ मज्झं, तं मे कइसु गोयमा। वृ. साहुसूत्रं प्राग्वत्। अधुना 'तमसश्च विधाटने' त्येकादशद्वारमधिकृत्याहमू. (९२१) अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू।
को करिस्सइ उज्जोयं?, सव्वलोगंमि पाणिणं॥ मू.(९२२) उग्गओ विमलो भानू, सव्वलोगपभंकरो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org