________________
अध्ययनं - २३, [ नि. ४५८ ]
८५
'तत' इति पथापथपरिज्ञातो न नश्याम्यहं मुने! ये हि स्वयं कुपथसत्पथस्वरूपानभिज्ञा भवन्ति ते बहुतरकुपथदर्शनात्तेष्वेव सुपथभ्रान्त्या नश्येयुः, अहं तु न तथेति कथं बहुतरकुपथदर्शनेऽपि नश्येयमिति भाव: ? ।
'मग्गे 'त्यादि (सूत्रं) सुगमं, नवरं मार्ग :- सन्मार्गः कः ?, उपलक्षणत्वात्कुमार्गाश्च के ?, कुप्रवचनेषु - कपिलादिप्ररूपितकुत्सितदर्शनेषु पाषण्डिनो व्रतिनः कुप्रवचनपाषण्डिनः सर्वे उन्मार्गप्रस्थिताः, बहुविधापायभाजनत्वात्तेषामिति भाव:, अनेनापि भङ्गया कुप्रवचनानि कुपथा इत्युक्तं भवति, 'सन्मार्गं तु' प्रशस्तमार्गं पुनर्विद्यादिति शेष: 'जिनख्यातं ' जिनप्रणीतं मार्गमिति प्रक्रम:, कुत: इत्याह-एष मार्गो 'ही' ति यस्माद् 'उत्तम:' अन्यमार्गेभ्यः प्रधान:, तस्मादयमेव सन्मार्ग इत्यभिप्रायः, उत्तमत्वं चास्य प्रणेतृणां रागादिविकलत्वेनेति भावनीयमिति । साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इहो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥
मू. (९१०)
मू. (९१२ )
वृ. साधुसूत्रं प्राग्वत् ! सम्प्रति 'महाश्रोतोनिवारणे 'त्ति नवमद्वारमुररीकृत्याहमू. (९११ ) महाउदगवेगेणं, वुज्झमाणाण पाणिणं । सरणं गई पइटुं च, दीवं कं मन्त्रसी ? मुनी ॥ अत्थि एगो महादीवो, वारीमज्झे महालओ । महाउदगवेगस्स, गई तत्थ न विज्जई ॥ दीवे अ इइ के वुत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥
मू. (९१३ )
मू. ( ९१४ )
वृ. सूत्रचतुष्टयम्, महदुदकं यत्र तत् महोदकं प्रक्रमान्महाश्रोतस्तस्य वेगो-रयो महोदकवेगस्तेन 'उह्यमानानां नीयमानानां 'पाणिणं' ति प्राणिनां 'शरणं' तत्रिवारणक्षममत एव गम्यमानत्वाद् गतिं तत एव च प्रतीत्य- आश्रित्य तिष्ठन्त्यत्र दुःखाभिहताः प्राणिन इति प्रतिष्ठा, 'अन्यत्रापी 'ति (वा०) वचनाद् तां च द्वीपं कं मन्यसे ? मुने ! नास्त्येव कश्चन तादृशो द्वीप इति प्रश्नयितुराशयः । गौतम आह अस्ति - विद्यते एको महांश्चासौ प्रशस्यतया द्वीपश्च महाद्वीप:, क्व ? - 'वारिमध्ये' जलस्यान्तः समुद्रान्तर्वर्त्यन्तरद्वीप इत्यर्थः ।
कीदृश् ? - 'महालओ'त्ति महान् - उच्चैस्त्वेन विस्तीर्णतया च अत एव महोदकवेगस्यक्षुभितपापालकलशवातेरीतप्रवृद्धजलमहाश्रोतो वेगस्य 'गति: ' गमनं 'तत्रे 'ति महाद्वीपे न विद्यते।‘दीवे' इत्यादि, गतार्थं । जरामरणे एव च निरन्तरप्रवाहप्रवृत्ततया वेगः प्रक्रमादुदकमहाश्रोतसो जरामरणवेगस्तेनोह्यमानानामपरापरपर्यायमयनेन 'प्राणिनां ' जीवानां 'धर्मः' श्रुतधर्मादिः द्वीप इव द्वीप उक्त इति प्रक्रमः, स ही भवोदधिमध्यवर्ती मुक्तिपदनिबन्धनतया न जरामरणवेगेन गन्तुं शक्यत इति, तत्र तथाविधजरामरणाभावाद्, अत एव विवेकिनस्तमाश्रित्य तिष्ठन्तीति प्रतिष्ठा, तथा गतिः शरणं चोत्तमं प्राग्वत् ।
इहापि द्वीपमात्रप्रश्नाभिधानेऽपि शेषाभिधानं प्रक्रमोपलक्षणत्वात्तत्प्रश्नस्येति भावनीयमिति
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International