________________
उत्तराध्ययन- मूलसूत्रम् - २-२३/९०३ तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ मनो साहस्सिओ भीमो, दुट्ठस्सो परिधावई । तं सम्मं तु निगिण्हामि, धम्मसिक्खाइ कंथगं ॥
मू. ( ९०४ )
वृ. सूत्रचतुष्टयम्। 'अयं' प्रत्यक्षः सहसा - असमीक्ष्य प्रवर्त्तत इति साहसिको भीमः प्राग्वत्, दुष्टश्चासावकार्य प्रवृत्त्याऽश्वश्च दुष्टाश्वः 'परिधावति' समन्ताद्गच्छति, यः कीदृगित्याह-यं दुष्टाश्वमभिभवसि यदिवा 'यंसि 'त्ति यस्मिन् हे गौतम! 'आरूढः ' चटितः, अनारूढस्य हिन वक्ष्यमाणापायहेतुरसौ स्यादित्येवमभिधानं, ततः कथमीति प्रश्ने 'तेन' इति दुष्टाश्वेन 'न हियसे' प्रस्तावन्नोन्मार्गं नीयसे ? |
८४
गौतम आह- 'प्रधावन्तम्' उन्मार्गाभिमुखं गच्छन्तं 'निगृह्णामि' निरुणध्मी, कीदृशं तमित्याह - श्रुतम्, आगमो नियन्त्रकतया रश्मिरिव रश्मिः - प्रग्रहः श्रुतरश्मिस्तेन समाहितोबद्धः श्रुतरश्मिसमाहितस्तम्, अतो न 'मे' मम सम्बन्धि दुष्टाश्च: 'गच्छति' याति 'उन्मार्गम्' उत्पथं, ततो न मम तेन हरणमिति भावः, ततश्च किमुदास्त एवेत्याह-'मार्ग च' सत्पथं पुनः 'प्रतिपद्यते' अङ्गीकुरुते । 'अस्से य' इत्यादि सुगमं, नवरं 'मनः' चित्तम्, इह च साहसिक इत्याद्यभिधानं प्रक्रमानुस्मरणार्थं, विशेषमुपदर्शयन्नुपसंहारमाह-तं सम्यग् निगृह्णामि धर्मविषया शिक्षा - उपदेशो धर्मशिक्षा तया, यद्वा शिक्षा - अभ्यासस्ततो 'धर्मशिक्षायै' धर्माभ्यासनिमित्तं कन्थको-जात्याश्वस्ततश्च कन्थकमिव कन्थकं, किमुक्तं भवति ? - दुष्टाश्वोऽपि निग्रहणयोग्यः कन्थकप्राय एवेति सुत्रचतुष्टयार्थ: ।। केशिराह
मू. (९०५)
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥
मू. (९०६ )
मू. (९०७)
वृ. साहुसूत्रं तथैव । तथा 'पथपरिज्ञाते' त्यष्टमं द्वारमाश्रित्याहकुप्पहा बहवे लोए, जेसिं नासंति जंतवो । अद्धाणे कह वट्टतो, तं न नाससि गोयमा ! ? ॥ जे अ मग्गेण गच्छति जे अ उम्मग्गपद्विया । ते सव्वे विइया मज्झं, तो न नस्सामहं मुनी ! ॥ अग्गे अ इति के बुत्ते ?, केसी गोयममब्बवी । तओ केसिं बुवंतं तु, गोयमो इणमब्बवी ॥ कुप्पवयणपासंडी, सव्वे उम्मग्गपट्ठिया । सम्मग्गं तु जिनक्खायं, एस मग्गे हि उत्तमे ॥
मू. (९०८ )
मू. ( ९०९)
वृ. सूत्राणि चत्वारि । कुत्सिताः पथाः कुपथाः- अशोभनमार्गाः 'बहवः' अनेके 'लोके' जगति ‘यैः' कुपथैः ‘नश्यन्ति' सन्मार्गाद्भश्यन्ति 'जन्तवः' प्राणिनः, ततश्चाध्वनि प्रस्तावासन्मार्गे 'कह' न्ति कथं वर्त्तमानस्त्वं न 'नश्यसि ?' सत्पथाच्यवसे ? हे गौतम! | गौतम आह-‘ये' केचित् ‘मार्गेणे' ति सन्मार्गेण 'गच्छन्ति' यान्ति ये च 'उन्मार्गप्रस्थिताः ' उत्पथप्रवृत्ताः, ते 'सर्वे' निरवशेषा विदिताः - प्रतीता मम, न चैते पथापथपरिज्ञामन्तरेण सम्यग् ज्ञायन्त इति सैवानेन भङ्गयन्तरेणाक्ता, विचित्रत्वाच्च ऋषीणां सूत्रकृतेरेवमभिधानं, ततश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org