________________
-
अध्ययनं-२३,[नि.४५८] मू.(८९७) महामेहपसूयाओ, गिज्झ वारि जलुत्तमं ।
सिंचामि सययं ते उ, सित्ता नो व डहति मे ॥ मू. (८९८) अग्गी अ इह के वुत्ते?, केसी गोयममब्बवी।
तओ केसि, बुवंतं तु, गोयमो ईणमब्बवी॥ मू.(८९९) कसाया अग्गिणो वुत्ताः, सुअसीलतवो जलं।
सुयधाराभिहया संता, भिन्ना हुन डहति मे॥ वृ.सूत्रचतुष्टयम्। समन्तात्प्रकर्षेण ज्वलिताः संप्रज्वलिता अत एव घोराः' रौद्राः 'अग्गी चिट्ठइ'त्त आर्षत्वाद्वचनव्यत्ययात्ततोऽग्नयस्तिष्ठान्ति हे गौतम ! ये दहन्तीव दहन्ति परितापकारितया 'शरीरस्थाः'देहस्थाः, न बहिर्वत्तिन इत्यर्थः, एतेच यद्यप्यात्मस्थास्तथाऽपिशरीरात्मनोरन्योऽन्यानुगमख्यापनायेत्थमुक्ताः, कथं 'विध्यापिताः' निर्वापितास्त्वया? । गौतम आहमहामेघात् प्रसूतम्-उत्पन्न महामेघप्रसूत तस्मात्, महाश्रोतस इति गम्यते, 'गिज्झ'त्ति गहीत्वा वारयति तृष्णादिदोषानिति वारि-पानीयं 'जलोत्तमं' शेषजलापेक्षया प्रधानं तेन 'सिञ्चामि' उक्षामि विध्यापयामीतियावत्, 'सततम्' अनवरतं, त उत्ति तुशब्दस्य भिन्न(:) क्रमस्ततस्तानग्नीन्, प्रसङ्गतस्तेत्सेचनफलमाह-सिक्तास्तु 'नो वे'ति नैव दहन्ति 'मे'त्ति मां, पठ्यते च'सययं देहि'त्ति, इह च देहस्थितत्वेनाग्नयोऽपि देहा उक्ताः, उक्तं हि 'तास्थ्यात्तद्वयपदेश'इति, अन्ये तु पूर्वसूत्रं पठन्ति-'जा डहेति सरीरत्थे'ति, अत्र तु पठन्ति-'सिंचामी सययं तं तु' इति, इह च 'तं' मित्यग्निमन्यत् प्राग्वद्, एकवचनान्तत्वमेव तु सर्वत्र विशेषः।। ___ "अग्गी येत्यादि प्राग्वत्, नवरमग्निप्रश्नो महामेघादिप्रश्नोपलक्षणं, कषायाः' क्रोधादयः अग्नयः परितापकतया शोषकतया चोक्तास्तीर्थकृद्धिीरिति गम्यते, श्रुतं चेहोपचारात्कषायोपशमहेतवः श्रुतान्तर्गतोपदेशाः शीलं च-महाव्रतानि तपश्च-अनशनग्रायश्चित्तादि श्रुतशीलतप इति समाहारः-तत्किमित्याह-जलं-पानीयमुपलक्षणत्वाच्चास्य महामेघस्त्रिजगदानन्दकतया शेषमेघातिशायित्वेन भगवांस्तीर्थकरो महाश्रोताश्च तत उत्पन्न आगमः, उक्तमेवार्थं सविशेषमुपसंहरनाह-श्रुतस्य आगमस्योपालक्षणत्वाच्छीलतपसोश्च धारा इव धारा-आक्रोशहननतर्जनधर्मभ्रंशेषूत्तरोभावस्यालाभरूपतादिसततपिभावनास्ताभिराभिहताः-ताडिताः श्रुतधाराभिहताः सन्तः प्रक्रमादुक्तरूपा अग्नयः "भिन्नाः' विदारितास्तदभिधातेन लवमात्रीकृता इतियावत् 'हु:' पूरणे न दहन्ति मामिति सूत्रचतुष्टयार्थः॥ मू.(९००) साहु गोयम! पन्ना ते, छिन्नो मे संसओ इमो।
अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा!॥ वृ. प्राग्वत् ! 'दुष्टाश्वनिग्रह' इति सप्तमद्वारमुररीकृत्याहमू. (९०१) अयं साहस्सिओ भीमो, दुट्ठस्सो परिधावई।
जसि गोयम! आरूढो, कहं तेन न हीरसि? ॥ मू. (९०२) पहावंतं निगिण्हामि, सुयरस्सीसमाहियं।
न मे गच्छइ उम्मग्गं, मग्गं च पडिवज्जइ॥ मू. (९०३) अस्से अ इइ के वुत्ते?, केसी गोयममब्बवी।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org