________________
७८
उत्तराध्ययन-मूलसूत्रम्-२-२३/८६८ शिक्षापदानि वा-प्राणिवधविरमणादीनि, सत्सु हि तेषु शेषाऽपि शिक्षा शिष्योपदेशात्मिका संभवतीति । एतदधिकृत्याह सूत्रकृत्मू.(८६९) चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ।
देसिओ वद्धमाणेणं, पासेण य महामुनी॥ मू.(८७०) एगकज्जपवन्नाणं, विसेसे किं नु कारणे?।
धम्मे दुविहे मेहावी, कहं विप्पच्चओ न ते? ॥ वृ. 'चतुर्यामः' हिंसाऽनृतस्तेयपरिग्रहोपरमात्मकव्रतचतुष्टयरूप: 'पञ्चशिक्षितः' स एव मैथुनविरमणात्मकपञ्चमव्रतसहितः । इत्थं च 'धर्मे' साधुधर्मे 'द्विविधे' द्विभेदे हे 'मेधाविन्!' विशिष्टावधारणशक्त्यन्वित! कथञ्चित् (कथं विप्र) प्रत्ययः' अनाश्वासो न 'ते' तव?, तुल्ये हि सर्वज्ञत्वे किंकृतोऽसौ मतभेद इत्यभिप्रायः, शेषं प्रकटार्थमेवेति सूत्रद्वयार्थः ॥
एव केशिनोक्तेमू. (८७१) तओ केसिं बुवंतं तु, गोयमो इणमब्बवी।
पन्ना समिक्खए धम्मतत्तं तत्तविनिच्छियं। पुरिमा उज्जुजड्डा उ, वक्कजड्डा य पच्छिमा।
मज्झिमा उज्जुपन्ना उ, तेन धम्मे दुहा कए॥ मू. (८७३) पुरिमाणं दुब्बिसुज्झो उ, चरिमाणं दुरनुपालाओ।
कप्पो मज्झिमगाणं तु, सुविसुज्झो सुपालओ। वृ. 'ततः' तदनन्तरं केशि ब्रुवन्ते तुः पूरणेऽवधारणे वा ततो ब्रुवन्तमेव जल्पादनुपरतमेव, अनेनादरातिशयमासन्नलब्धप्रतिभतां च गौतमस्याह । किं तदववीदित्याह-'प्रज्ञा' बुद्धिः 'समीक्षते' सम्यक् पश्यति, किं तदित्याह-'धम्मतत्तं'ति बिन्दुरलाक्षणिकस्ततः 'धर्मतत्त्वं' धर्मपरमार्थं तत्त्वानां-जीवादीनां विनिश्चयो-विशिष्टनिर्णयात्मको यस्मिस्तत्तथा, इदमुक्तं भवति-न वाक्यश्रवणमात्रादेव वाक्यार्थनिणर्यो भवति, किन्तु प्रज्ञावशात्, ततः 'पुरमि'त्ति 'पूर्वे' प्रथमतीर्थकृत्साधवः ‘उज्जुजड्डे'ति ऋजवश्च प्राञ्जलतया जडाश्च तत एव दुष्प्रतिपाद्यतया ऋजुजडाः, तुरिति यस्मात् 'वक्कजड्डा य'त्ति, वक्राश्च वक्रबोधतया जडाश्च तत एव स्वकानेककुविकल्पो विवक्षितार्थप्रतिपत्त्यक्षमतया वक्रजडाः 'च:' समुच्चये 'पश्चिमा:' पश्चिमतीर्थकृद्यतयः 'मध्यमास्तु' मध्यमतीर्थकृत्सम्बन्धितपस्विनः, ऋजुप्रज्ञाः' ऋजवश्च ते प्रकर्षण जानन्तीति प्रज्ञाश्च सुखेनैव विवक्षितमर्थं ग्राहयितुं शक्यन्त इति ऋजुप्रज्ञाः, तेन हेतुना धर्मो द्विभेदः ‘कृतः' विहितः, एककार्यप्रतिपन्नत्वेऽपीति प्रक्रमः। __यदि नाम पूर्वादीनामेवंविधत्वं तथाऽपि कथमेतद् द्वैविध्यमित्याह-'पुरिमाणं'ति पूर्वेषां दुःखेन विशोध्यो विशोधयितुं-निर्मलतां नेतुं शक्यो दुर्विशोध्यः, कल्प इति संबध्यते, ते ह्यतिऋजुतया गुरुभिरनुशिष्यमाणा अपि न तदनुशासनं स्वप्रज्ञाऽपराधाद्यथावत्प्रतिपत्तुं क्षमन्त इति तेषामसौ दुर्विशोध्य उच्यते, तुशब्द उत्तरेभ्यो विशेषं द्योतयति, 'चरमाणां' चरमतीर्थकृत्तपस्विनां दुःखेनानुपाल्यत इति दुरनुपालः स एव दुरनुपालकः 'कल्पः' यतिक्रियाकलापः, ते हि वक्रत्वेन कु विकल्पाकुलितचित्ततया कथञ्चिज्जानाना अपि न यथावदनुष्ठातुमीशते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org