________________
७७
अध्ययनं-२३,[ नि. ४५५]
गौतमस्य 'निषद्यायै' निषद्यानिमित्तमुपवेशनार्थमित्यर्थः, 'संपणामए'ति समर्पयति, शेषं सूत्रसिद्धमेवेति सूत्रचतुष्टयार्थः ।। तौ च तत्रोपविष्टौ यथा प्रतिभातस्तथाऽऽहमू.(८६४) केसी कुमारसमणे, गोअमे य महायसे।
उभओ निसन्ना सोहंति, चंदसूरसमप्पहा॥ वृ.निगदसिद्धं, नवरं सोहंति'त्ति शोभते चन्द्रसूर्यसमा प्रभा-छाया ययोस्तौ तथा चन्द्रसूर्योपमावितियावदिति सूत्रार्थः ।। तत्सङ्गमे च यदभूत्तदाहमू. (८६५) समागया बहू तत्थ, पासंडा कोउगासिया।
गिहत्थाण अनेगाओ, साहस्सीओ समागया। मू.(८६६) देवदानवगंधव्वा, जक्खरक्खसकिंनरा।
अद्दिस्साण य भूआणं, आसि तत्थ समागमो। वृ.'समागताः' मिलिताः पाषण्डं-व्रतं तद्योगात् 'पाषण्डाः' शेषव्रतिनः कौतुकं-कुतूहलम् आश्रिताः-प्रतिपन्नाः कौतुकश्रिताः, पठ्यते च-'कोउगामिग'त्ति, तत्र कौतुकात् मृगा इव मृगा अज्ञत्वात्प्राकृतत्वादामितकौतुका वा, 'साहस्सीओ'त्ति सूत्रत्वात्सहस्राणि । देवाज्योतिष्कवैमानिकाः दानवाःभवनपतयो गन्धर्वयक्षादयो-व्यन्तरविशेषाः, समागता इति पूर्वेण सम्बन्धः, एते चानन्तरमदृश्यविशेषणाद् दृश्यरूपाः, अदृश्यमानां च भूतानां केलीकिलव्यन्तरविशेषाणामासीत् 'समागमः' मीलकः, शेषं सुगममिति सूत्रद्वयार्थः॥ सम्प्रति तयोर्जल्पमाहम.(८६७) पच्छामि ते महाभाग!, केसी गोयममब्बवी।
तओ केसि बुवंतं तु, गोयमो इणमब्बवी॥ मू.(८६८) पुच्छ भंते ! जहिच्छंते, केसिं गोयममब्ववी।
तओ केसी अणुनाए, गोअमं इणमब्बवी।। वृ. 'पृच्छामि' प्रश्नयामि 'ते' इति त्वां 'महाभाग !' अतिशयाचिन्त्यशक्ते ! 'अब्रवीत्' उक्तवान् 'ततः' तद्वचनानन्तरं केशि 'ब्रुवन्तम्' अभिदधतं 'तुः' पुनरर्थे भिन्नक्रमश्च केशि पुनर्बुवन्तमिति योज्यते, 'जहिच्छं'ति इच्छाया अनतिक्रमेण यथेच्छं यदवभासत इत्यर्थोऽनुज्ञान इति-अनुमतो गौतमेनेति प्रक्रमः, शेषं प्रतीतमिति सूत्रद्वयार्थः ।।
यच्चासौ गौतमं पृष्टवांस्तत्संग्राहकं नियुक्तिकृद् द्वारगाथात्रयमाहनि.[ ४५६] .. सिक्खावए अलिंगे अ, सत्तूणं च पराजए।
पासावगत्तणे चेव, तंतूद्धरणबंधने॥ नि.[४५७] अगनिनिव्वावणे चेव, तहा दुट्ठस्स निग्गहे।
तहा पहपरिन्नाय, महासोअनिवारणे॥ नि.[ ४५८] संसारपारगमने, तमस्स अविघायणे।
ठाणोवसंपया चेव, एवं बारससू कमो।। वृ.एतच्च यथाऽवसरंसूत्रव्याख्यान एव व्याख्यास्यते, तत्र प्रथमं सिक्खावय'त्ति द्वारम्, अत्र च शिक्षा-अभ्यासस्तत्प्रधानानि व्रतानि प्रतिदिनं यतिभिरभ्यस्यमानतया शिक्षाव्रतानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org