________________
अध्ययनं - २३, [ नि. ४५८ ]
७९
मध्मकानां तु सुखेन विशोध्यो-विशोधयितुं शक्यः सुविशोध्यः, 'सुपाउल 'त्ति चशब्दस्य गम्यमानत्वात्सुपालश्च, कोऽसौ ? - कल्पः इतीहापि योज्यते, ते हि ऋजुप्रज्ञा इति सम्यग् - मार्गानुसारिबोधतया सुखेनैव यथावदगच्छन्ति पालयन्ति च, अतस्ते चतुर्यामोक्तावपि पञ्चममपि याममुक्तहेतोर्ज्ञातुं पालयितुं च क्षमा इति तदपेक्षया पार्श्वेण चतुर्याम उक्तः, पूर्वपश्चिमाश्वोक्तनीतितो नेत्थमिति ऋषभवर्द्धमानाभ्यां पञ्चमं व्रतमुक्तम्, अयमर्थः-न यादृशाद्वाचकादेकस्य श्रोतुर्विवक्षितार्थप्रतिपत्तिस्तादृशादेवाशेषाणामपि, स्वप्रज्ञाऽपेक्षया हि कोऽपि कीदृशादेव वाचकादेकमप्यर्थं प्रतिपद्यत इति विचित्रप्रज्ञविनेयानुग्रहायोपात्ताद्वाचकभेदादेव धर्मस्य द्वैविध्यं, न तु वस्तुभेदात्, यद्वाचकभेदेऽपि वस्तुतो व्रतपञ्चकस्यैवात्र विवक्षितत्वात्, प्रसङ्गतश्चेहाद्यजिनाभिधानमिति सूत्रत्रयार्थः । इत्थं गौतमेनोक्ते केशिराह
मू. ( ८७४ )
मू. (८७५)
साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ अचेलओ अ जो धम्मो, जो इमो संतरुत्तरो । देसिओ वद्धमाणेणं, पासेण य महामनी ॥ एगकज्जपवन्नाणं, विसेसे किं नु कारणं ? । लिंगे दुविहे मेहावी!, कहं विप्पच्चओ न ते ?
मू. (८७६ )
वृ. 'साधु' त्ति साधुः - शोभना गौतम! 'प्रज्ञा' बुद्धिः 'ते' तव, यत: 'छिन्नः' अपनीतस्त्वयेति गम्यते, मम 'संशयः' सन्देहः 'इमो 'त्ति अयम् - उक्तरूपः, पठन्ति च -' - 'पन्नाए 'त्ति, तत्र च साधु यथा भवत्येवं गौतम ! 'प्रज्ञया' बुद्धया छिन्नो मे संशयोऽयं, त्वयेति व्याख्येयं, विनेयापेक्षं चेत्थमभिधानं, न तु तस्य मतिश्रुतावधिज्ञानत्रयसमन्वितस्यैवंविधसंशयसम्भव इति सर्वत्र भावनीयम्।‘अन्योऽपि' वक्ष्यमाणः संशयो मम तं मे कथय गौतम !, तद्विषयमप्यर्थं यथावत्प्रतिपादयेति भावः ।
अत्र च द्वितीयं द्वारं 'लिंग' त्ति, लिङ्गयते गम्यतेऽनेनायं व्रतीति लिङ्गं वर्षाकल्पादिरूपो वेषः, तदधिकृत्याह-‘अचेलओ' इत्यादि, प्राग् व्याख्यातमेव, नवरं 'महामुनि 'त्ति महामुने !, पठन्ति च ‘महाजस'त्ति महायशाः, लिङ्गे द्विविधे- अचेलकतया विविधवस्त्र धारकतया च द्विभेद सूत्रत्रयार्थः ॥ एवं केशिनाऽभिहिते गौतमवचोऽभिधायकं सूत्रत्रयम्
मू. (८७७)
मू. (८७८)
केसि एवं बुवाणं तु, गोयमो ईणमब्बवी । विन्नाणेण समागम्म, धम्मसाहणमिच्छियं ॥ पच्चयत्थं च लोगस्स, नानाविहविकप्पणं! जत्तत्थं गहणत्थं च, लोगे लिंगपओक्षणं ॥ अहं भवे पइन्ना उ, मुक्खसब्भूयसाहणा । नाणं च दंसणं चेव, चरितं चेव निच्छए ।
मू. (८७९)
वृ. अत्र च विशिष्टं ज्ञानं विज्ञानं तच्च केवलमेव तेन समागम्य यद्यस्योचित्तं तत्तथैव ज्ञात्वा 'धर्मसाधनं' धर्मोपकरणं वर्षाकल्पादिकम् 'इच्छिय'न्ति 'इष्टम्' अनुमतं पार्श्वनाथवर्द्धमानतीर्थकृद्भ्यामिति प्रक्रमः, वर्द्धमानविनेयानां हि रक्तादिवस्त्रानुज्ञाने वक्रजडत्वेन
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
-