________________
अध्ययनं-२२,[नि. ४४६] 'सा' राजीमती 'भ्रमरसन्निभान्' कृष्णतया आकुञ्चिततया च, कूर्ची-गूढकेशोन्मोचको वंशमयः फणक:-कङ्कतकस्ताभ्यां प्रसाधिताः-संस्कृता ये तान् 'स्वयम्' आत्मनैव लुञ्चति' अपनयति, भगवदनुज्ञयेति गम्यते, 'केशान्' कचान् ‘धिइमंति'त्ति धृतिमति व्यवसितेति-अध्यवसिता सती, धर्म विधातुमिति शेष इति सूत्रत्रयार्थः । तत्प्रव्रज्याप्रतिपत्तौ चमू.(८२७) वासुदवो अणं भणइ, लुत्तकेसि जिइंदियं।
___ संसारसागरं घोरं, तर कन्ने! लहुं लहुं॥ वृ. स्पष्टमेव, नवरं तर' इत्युल्लङ्घयः आशीर्वचनत्वादयमप्यशिषि लोट्, लघु लघु' त्वरितं त्वरितं, संभ्रमे द्विर्वचनमिति सूत्रार्थः ।। तदुत्तरवक्तव्यतामाहमू.(८२८) सा पव्वईया संती, पव्वावेसी तर्हि बह।
सयनं परियणं चेव, सीलवंता बहुस्सुआ॥ मू.(८२९) गिरिरेवययं जंती, वासेनोल्ला उ अंतरा।
वासंते अंधयारंमि, अंतो लयणस्स साठिया। मू.(८३०) चीवराणि विसारंती, जहा जायत्ति पासिया।
रहनेमि भग्गचित्तो, पच्छा दिट्ठो अतीइवि॥ मू.(८३१) भीया य सा तर्हि दटुं, एगते संजयं तयं ।
बाहाहिं काउंसंगुर्फ, वेवमाणी निसीयई। वृ.सूत्रचतुष्टयं स्पष्टमेव, नवरं 'सा' इति राजीमती पव्वावेसि'त्ति प्राविव्रजत्-प्रव्राजितवती 'तहिं'ति तस्यां द्वारकापुरि। 'रैवतकम्' उज्जयन्तं यान्ती' गच्छन्ति, भगवद्वन्दनार्थमिति गम्यते, 'वर्षेण' वृष्टया उल्ल'त्ति आर्द्रा स्तिमितसकलचीवरेतियावत्, 'अन्तरे' त्यन्तरालेऽर्द्धपथ इत्यर्थः, 'वासंति'त्ति वर्षति, नीरद इति गम्यते, 'अन्धकारे' अपगतप्रकाशे, कस्मिन् ?-'अन्तः' मध्ये, उक्तं हि-'अन्तःशब्दोऽधिकरणप्रधानं मध्यमाह' लयनमिह गुहा तस्यां 'सा' राजीमती "स्थिता' इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र च 'चीवराणि' सङ्घाट्यादिवस्त्राणि 'विसारयन्ती' विस्तारयन्ती अत एव 'यथाजाता' अनाच्छादितशरीरतया जन्मावस्थोपमा 'इती' त्येवंरूपा 'पासिय' त्ति दृष्ट्व(ष्टा), तद्दर्शनाच्च रथनेमिः' रथनेमिनामा मुनिः भग्नचित्तः भग्नपरिणामः सन् प्रक्रमात्संयमं प्रति, स हि तामुदाररूपामवलोक्य समुत्पन्नतदभिलाषातिरेक: परवशमनाः समजनि, पश्चादृष्टश्च 'तया' राजीमत्या 'अपि' पुनरर्थे, प्रथमप्रविष्टैर्हि नान्धकारप्रदेशे किञ्चि दवलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेषसाध्वीष्वेकाकिनीप्रविशेदपि न तत्रेयमिति भावः, भीता च मा कदाचिदसौ मम शीलभकं विधास्यतीति, 'तस्मिन्' इति लयने दृष्ट्वा 'एकान्ते' विवेक्ते 'तकम्' इति रथनेमि, किं कृतवत्यसावित्याह-'बाहाहि'ति बाहुभ्यां कृत्वा 'संगोपं' परस्परबाहुगुम्फनं स्तनोपरिमर्कटबन्धमितियावत्, वेपमाना' शीलभङ्गभयात्कम्पमाना 'निषीदति' उपविशति, तदाश्लेषादिपरिहारार्थमिति भाव इति सूत्रचतुष्टयार्थः ।। अत्रान्तरेमू. (८३२) अह सोऽविरायपुत्तो, समुद्दविजयंगओ।
भीयं पवेविरं दटुं, इमं वक्कमुदाहरे॥ For Private & Personal Use Only
Jain Education International
www.jainelibrary.org