________________
६८
उत्तराध्ययन-मूलसूत्रम् - २ - २२ / ८२० ‘सीयातो’त्ति शिबिकातः ‘साहस्सीय 'त्ति सहस्रेण प्रधानपुरुषाणामिति शेष: 'परिवृत्त: ' परिवेष्टितः ‘अथे' त्यान्तर्ये ‘निष्क्रामति' श्रामण्यं प्रतिपद्यते 'तुः पूरणे 'चित्ताहिं 'ति चित्रासु चित्रानाम्नि नक्षत्रे । कथमित्याह-'सुगन्धिगन्धिकान्' स्वभावत एव सुरभिगन्धीन् 'त्वरितं' शीघ्रं 'मृदुकत्वकुञ्चितान्' कोमलकुटिलान्'स्वयमेव' आत्मनैव 'लुञ्चति' अपनयति केशान् 'पञ्चाष्टाभिः ''पञ्चमुष्टिभिः 'समाहितः ' समाधिमान्, सर्वं सावद्यं ममाकर्तव्यमिति प्रतिज्ञारोहणोपलक्षणमेतत् ।
मू. (८२१ )
इह तु वन्दिकाचार्य: सत्त्वमोचनसमयेसारस्वतादिप्रबोधनभवनगमनमहादानानन्तरं निष्क्रमणाय पुरीनिर्गममुपवर्णयांवभूवेति सूत्रसप्तकार्थः । एवं च प्रतिपन्नप्रव्रज्ये भगवतिवासुदेवो अ णं भणई, लुत्तकेसं जिइंदियं । इच्छियमनोरहे तुरियं, पावसू तं दमीसरा ! ॥ नाणेणं दंसणेणं च, चरित्तेणं तवेण य । खंतिए मुत्तीए, वद्धमानो भवाहि य ॥ एवं ते रामकेसवा, दसारा य बहू जना । अरिनेमिं वंदित्ता, अइगया बारगाउरिं ॥
मू. (८२२ )
मू. (८२३ )
वृ. सूत्रत्रयं स्पष्टं, नवरं वासुदेवश्चेति चशब्दाद्बलभद्रसमुद्रविजयादयश्च 'लुप्तकेशम्' अपनीतिशिरोरुहं ईप्सितः - अभिलषितः स चासौ मनोरथश्च भगवन्मनोरथविषयत्वान्मक्तिरूपोऽर्थ ईप्सितमनोरथस्तं 'तुरियं 'ति त्वरितं 'पावसु 'त्ति प्राप्नुहि, आर्शीर्वचनत्वादस्य आशिषि 'लिट्लोटा' वित्याशिषि लोट् । 'तम्' इति त्वं 'वर्द्धमानः' इति वृद्धिभाक् 'भवाहि य'त्ति भव, चशब्द आशीर्वादान्तरसमुच्चये । 'एवम्' उक्तप्रकारेण 'वन्दित्वा' स्तुत्वेति योग:, इह चैवंविधाशीर्वचनानामपि गुणोत्कर्षसूचकत्वेन स्तवनरूपत्वमविरुद्धमिति भावनीयं, 'दसारा यत्ति दशार्हाः, चशब्दो भिन्नक्रमस्ततः 'बहु' त्ति बहवो जनाश्च 'अतिगताः ' प्रविष्टा इति सूत्रत्रयार्थः ॥ तदा च कीदृशी सती राजीमती किमचेष्टतेत्याह
मू. (८२४ )
सोऊणा रायकन्ना, पव्वज्जं सा जिनस्स उ । नीहासा उ नीरानंदा, सोगेण उ समुच्छिया ।
मू. (८२५)
राईमई विचिंतेइ, धिरत्थु मम जीवियं । जाऽहं तेणं परिचत्ता, सेयं पव्वइउं मम ॥ अह सा भमरसंनिभे, कुच्चफणगप्पसाहिए। सयमेव लुंचई केसे, धिइमंती वविस्सया ॥
मू. ( ८२६ )
वृ. सूत्रत्रयं स्पष्टं, नवरं निष्क्रान्ता हासान्निर्हासा, चशब्दो भिन्नक्रमस्ततो निरानन्दा च, 'समवसृता' अवष्टब्धा । धिगस्तु मम जीवितमिति स्वजीवितनिन्दोद्भावकं खेदवचो, याऽहं तेन परित्यक्तेति खेदहेतुपदर्शनं, ततश्च 'श्रेयः' अतिशयप्रशस्यं 'प्रव्रजितुं' प्रव्रज्यां प्रतिपत्तुं येनान्यजन्मन्यपि नैवं दुःखभागिनी भवेयमिति भावः ।
इत्थं चासौ तावदवस्थिता यावदन्यत्र प्रविहृत्य तत्रैव भगवानाजगाम, तत उत्पन्नकेवलस्य भगवतो निशम्य देशनां विशेषत उत्पन्नवैराग्य किं कृतवतीत्याह-'अहे' त्यादि, 'अथ' अनन्तरं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org