SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ अध्ययनं - २१, [ नि. ४३१ ] ५९ तैः शोभा - तत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकरतं 'वध्यं' वधाईं कञ्चन तथाविधाकार्यकारिणं पश्यति - बाह्यं नगरबहिर्वर्त्तिप्रदेशं गच्छतीति बाह्यगस्तं, कोऽर्थः ? - बहिर्निष्क्रामन्तं यद्वा 'वध्यगम्' इह वध्यशब्देनोपचाराद्वध्यभूमिरुक्ता । नि. [ ४३२ ] नि. [ ४३३ ] नि. [४३४] नि. [ ४३५ ] तथाविधं वध्यं दृष्ट्वा संवेगः - संसारवैमुख्यतो मुक्त्यभिलाप्सतद्धेतुत्वात्सोऽपि संवेगस्तं समुद्रपालः ‘इदं' वक्ष्यमाणमब्रवीत्, यथा- अहो ! 'अशुभानां कर्मणां पापानामनुष्ठानानां 'निर्याणम्' अवसानं 'पापकम्' अशुभम् 'इदमं' प्रत्यक्षं यदसौ वराको वधार्थमित्थं नीयत इति भावः । एवं परिभावयन्, 'संबुद्ध:' अवगततत्त्वः 'सः' वणिकपुत्रः 'तत्रे 'ति तस्मिन्नेव प्रासादालोकने ‘भगवान्' माहात्म्यवान्, माहात्म्येऽपि भगवच्छब्दस्य दर्शनात् परं - प्रकृष्टं संवेगमागतः, ततश्चापृच्छय मातापितरौ 'पव्वये 'त्ति 'प्राव्राजीत्' प्रकर्षेण गतवान्, कोऽर्थः ? - प्रतिपन्नवान्, ‘अनगारितां' निस्सङ्गतामिति सूत्रदशकार्थः ॥ सम्प्रति अनुवादोऽपि स्पष्टताहेतुर्व्याख्याङ्गमिति ख्यापनायैवोक्तमेवार्थमनुवदन् विशेषं च वदन्नाह निर्युक्तिकारःचंपाए सत्थवाहो नामेणं आसि पालिओ नामं । वीरवरस्स भगवओ सो सीसो खीणमोहस्स ॥ अह अन्नया कयाई पोएणं गणिमधरिमभरिएणं । तो नगरं संपत्तो पीहुंडं नाम नामेणं ॥ ववहरमाणस्स तर्हि पिहुंडे देइ वाणिओ धूअं । तंपि अ पति धित्तूण निग्गओ सो सदेसस्स ॥ अह सा सत्थाहसुआ समुद्दमज्झमि पसवई पुत्तं । पिअदसणसव्वंगं नामेण समुद्दपालित्ति ।। खेमेणं संपत्तो सो पालिअ सावगो घरं निययं 1 धाईदसद्धपरिवुडो अह वड्डइ सो उदहिनामो ॥ बावतरं कलाओ अ सिक्खिओ नीइकोविओ जाहे । तो जुव्वनमुप्फन्नो जाओ पिअदंसणो अहिअं ॥ अह तस्स पि पतिं आणेई रूविणित्ति नामेणं । चट्ठिगुणोवेयं अमरवहूणं सरिसरूवं ॥ अह रूविनीइ सहिओ कीलइ सो भवनपुंडरी अंमि । दोगुदगुव्व देवो किंकरपरिवारिओ निच्चं ॥ अह अन्नया कयाई ओलोअनसंठिओ सदेवीओ । वज्झं नीनिज्जंतं अन्निज्जंतं जनसएहिं ॥ अह भणइ सन्निनाणी भीओ संसारिआण दुक्खाणं । नी आण पावकम्माण हा जहा पावगं इनमो ॥ संबद्धो सो भयवं संवेगमनुत्तरं च संपत्तो । आपुच्छिऊण जएण निक्खंतो खायजसकित्ती ॥ नि. [ ४३६ ] नि. [ ४३७] नि. [ ४३८ ] नि. [ ४३९ ] नि. [ ४४० ] नि. [ ४४१ ] नि. [ ४४२ ] वृ. व्याख्यातप्राया एव, नवरं 'वीरवरस्स' त्ति नामतोऽन्येऽपि वीराः संभवन्ति स तु भगवान् For Private & Personal Use Only Jain Education International - www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy