________________
५८
उत्तराध्ययन- मूलसूत्रम् - २ - २१ / ७७७
मू. ( ७७७ )
मू. ( ७७८ )
मू. ( ७७९)
खेमेण आगए चंप, सावए वाणिए घरं । संवड्डूई घरे तस्स, दारए से सुहोइए । बावत्तरीकलाओ अ, सिक्खिए नीइकोविए । जुव्वनेन य अप्फुन्ने, सुरूवे पियदंसणे ॥ तस्स रूववइं भज्जं, पिया आनेइ रूविणि । पासाए कीलए रम्मे, देवो दोगुंदगो जहा ॥ अह अन्नया कयाई, पासायालोअने ठीओ । वज्झमंडनसो भागं, वज्झं पासइ बज्झगं ॥ तं पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहो असुहान कम्माणं, निज्जाणं पावगं इमं ॥ संबुद्धो सो तहिं भयवं परमं संवेगमागओ । आपुच्छऽम्मापियरो, पव्वए अनगारियं ॥
मू. ( ७८० )
मू. ( ७८१ )
मू. ( ७८२ )
वृ. सूत्राणि दश । इदमुत्तरं चाध्ययनं क्वचित्सोपस्कारतया व्याख्यास्यते- 'चम्पायां' चम्पाऽभिधानायां पुरि पालितो नाम सार्थवाहः 'श्रावकः' श्रमणोपासकः 'आसीत्' अभूद् वणिगेव वणिजः- वनिग्जाति: महावीरस्य भगवतः 'शिष्यः' विनेयः स इति, सतुः विशेषणे 'महात्मनः' प्रशस्यात्मनः । स च कीदृगित्याह- 'नैर्ग्रन्थे' निर्ग्रन्थसम्बन्धिनि 'पावयणे 'त्ति प्रवचने श्रावकः सः इति पालितो विशेषेण कोविदः - पण्डितो विकोविदः, कोऽर्थः ? -विदितजीवादिपदार्थः 'पोतेन व्यवहरन्' प्रवहणवाणिज्यं कुर्वन् 'पिहुण्डं' पिहुण्डनामकं नगरम् 'आगतः' प्राप्तः । तत्र च पिहुण्डे व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं' ति दुहितरम्, उदूढवांश्च तामसौ, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा' मित्यापन्नसत्त्वां ‘परिगृह्य’ आदाय स्वदेशम् 'अथ' अनन्तरं 'प्रस्थितः ' चलितः । तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्रे' जलधौ 'प्रसूते' गर्भं विमुञ्चति स्मेति शेषः, 'अथे'त्युपन्यासे 'दारकः' सुतः 'तस्मिनु' इति प्रसवने 'जात: ' उत्पन्न: समुद्रपाल इति 'नामतो' नामाश्रित्य ।
क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतश्चम्पायां श्रावको वाणिजः 'घरं 'ति चस्य गम्यमानत्वाद्, गृहं च स्वकीयं कृतं च तत्र वर्द्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमारः । एवं च प्राप्तः कलाग्रहणयोग्यतां द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः ' न्यायाभिज्ञः, 'जोव्वनेन य अप्फुन्ने' त्ति, चस्य भिन्नक्रमत्वाद्यौवनेन 'आपूर्णश्च' परिपूर्णशरीरश्च, पठ्यते च'जोव्वनेन य संपन्ने'त्ति, तत्र च 'संपन्नः' युक्तोऽत एव 'सुरूप:' सुसंस्थानः 'प्रियदर्शनः ' सर्वस्यैवानन्ददाता |
परिणयनयोग्यतां च तस्य विज्ञाय 'रूपवर्ती' विशिष्टाकृति भार्यां पत्नीं 'पिता' पालितवणिग् 'आनयति' तथाविधकुलादागमयति 'रूपिणीं' रूपिणीनाम्नीं, परिणायितश्च तामसौ, प्रासादे क्रीडति-रमति तया सह ‘रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा । अथान्यदा कदाचित् 'प्रासादालोकने' उक्तरूपे स्थितः सन् वधमर्हति वध्यत्सस्य मण्डनानि-रक्तचन्दनकरवीरादीनि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org