________________
५७
-
अध्ययनं-२०,[नि. ४२९] मू. (७७२) इयरोऽवि गुणसमिद्धो तिगुत्तिगुत्तो तिदंडविरओ य।
विहग इव विप्पमुक्को विहरइ वसुहं विगयमोहु॥ वृ. राजा चासौ सिंहश्चातिपराक्रमवत्तया राजसिंहः, अनगारस्य च सिंहत्वं कर्ममृगान् प्रत्यतिदारुणत्वात् प्रशंसाख्यापकं वा उभयत्र सिंह इति, 'सावरोधः' सान्तःपुरः 'सपरिजनः' सपरिवारः 'विमलेन' विगत मिथ्यात्वमेलेन। उच्छसिताइवोच्छसिताः-उद्भिन्ना रोमकूपारोमरन्ध्राणि यस्यासावुच्छसितरोमकूप: 'अतियातो'त्ति अतियातः' गतः स्वस्थानमिति गम्यते, 'इतरः' संयतः सोऽपि हि 'विहग इव' पक्षीव 'विप्रमुक्तः' क्वचिदपि प्रतिबन्धविरहितो विहरतीति वर्तमाननिर्देशः प्राग्वत्, 'विगतमोह:' विगतवैचित्त्य, शेषं सुगममिति सूत्रत्रयार्थः । 'इति' परिसमाप्तौ, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥
अध्ययनं - २० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे विंशतितमध्ययनस्य भद्रबाहुस्वामिविरचिता नियुक्तिः एवं शान्त्याचार्य विरचिता टीका परिसमाप्ता।
(अध्ययनं २१ समुद्रपालितं - वृ. व्याख्यातं महानिर्ग्रन्थीयं नाम विंशतितममध्ययनम्, इदानीमेकविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनेऽनाथत्वमनेकधोक्तम्, इह तु तदालोचनाद्विविक्तचर्ययैव चरितव्यमित्यभिप्रायणे सैवोच्यत इत्यनेनाभिसम्बन्धेनायातस्याध्ययनस्य प्राग्वदनयोगद्वारचतुष्टयं प्ररूप्यं तावद् यावन्नामनिष्पन्ननिक्षेपे समुद्रपालीयमिति नामातः समुद्रपालनिक्षेपाभिधानायाह नियुक्तिकृत्नि.[४३०] समुद्देण पालिअंमि अनिक्खेवु चउक्कओ दुविह दव्व। नि.[४३१] समुद्दपालिआऊ वेयंतो भावओ य नायव्वो।
तत्तो समुट्ठिअमिणं समुद्दपालिज्जमज्झयणं । वृ.गाथाद्वयं प्रतीतार्थमेव, नवरंसमुद्रपालनिक्षेपप्रस्तावे यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पाल्यते स्मेति समुद्रपाल इति व्युत्पत्तिख्यापनार्थमिति गाथाद्वयार्थः ।।
गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रालापकानिष्पन्ननिक्षेपावसरः, स च सति सूत्र इति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्मू. (७७३) चंपाए पालिए नाम, सावए आसि वाणिए।
महावीरस्स भगवओ, सीसो सो उ महप्पणो॥ मू. (७७४) निग्गंथे पावयणे, सावए से विकोविए।
पोएण ववहरते, पिहुंडं नयरमागए। मू. (७७५) पिहुंडे ववहरंतस्स, वाणिओ देइ धूअरं।
तं ससत्तं पइगिज्झ, सदेसमह पत्थिओ। मू.(७७६) अह पालियस्स धरणी, समुद्दमि पसवई।
अह दारए तर्हि जाए, समुद्दपालित्ति नामए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org