________________
४७
अध्ययनं-२०,[नि. ४२९] यम्, इह चानुशिष्टरभिधेया, अर्थधर्मगतिः प्रयोजनम्, अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ।।
सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमहमू.( ७१४) पभूयरयणो राया, सेणिओ मगहाहिवो।
विहारजत्तं निज्जाओ, मंडिकुच्छि सि चेइए। मू. ( ७१५) नानादुमलयाइन्न, नानापक्खिनिसेवियं ।
नानाकुसुमसंछन्नं उज्जानं नंदनोवमं॥ मू. (७१६) तत्थ सो पासए साहू, संजयं सुसमाहियं।
निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइयं ।। मू. (७१७) तस्स रूवंतु पासित्ता, राइणो तंमि संजए।
अच्चंतपरमो आसी, अउलो रूवविम्हो । मू. (७१८) अहो वन्नो अहो रूवं, अहो अज्जस्स सोमया।
अहो खंती, अहो मुत्ती, अहो भोगे असंगया। मू. ( ७१९) तस्स पाए उ वंदित्ता, काऊण य पयाहिणं।
नाइदूरमणासने, पंजली पडिपुच्छई।। मू. (७२०) तरुणोऽसि अज्जो! पव्वइओ, भोगकालंमि संजया!।
उवडिओऽसि सामन्ने, एअमटुं सुणेमु ता॥ वृ.सूत्रसप्तकं पाठसिद्धमेव, नवरं प्रभृतानि रत्नानि-मरकतादीनि प्रवरगजाश्वादिरूपाणि वा यस्यासौ प्रभूतरत्नः 'विहारजत्त'न्ति सुब्ब्यत्ययाद् विहारयात्रया क्रीडार्थमश्ववाहनि• कादिरूपया निर्यातः' निर्गतो नगरादिति गम्यते, 'मंडिकुच्छिसि'त्ति मण्डिकुक्षौ मण्डिकुक्षिनाम्नि 'चैत्ये' इत्युद्याने। तदेव नानेत्यादिना विशिनष्टि-'साहुं संजयं सुसमाहियं'ति, साधुः सर्वोऽपि शिष्ट उच्यते तद्वयवच्छेदार्थं संयतमित्युक्तं, सोऽपि च बहि:संयमवान्निह्नवादिरपि स्यादिति सुष्टु समाहितो-मन:समाधानवान् सुसमाहितस्तमित्युक्तं, 'सुहोइयं'ति सुखोचित्तं शुभोचितं वा। __'अत्यन्तपरमः' अतिशयप्रधानः 'अतुलः' अनन्यसदृशो रूपविषयो रूपविस्मयः 'अहो?' इत्यादिना विस्मयरूपमुक्तम्, इह च 'अहो ?' इत्याश्चर्ये 'वर्णः' सुस्निधो गौरतादिः 'रूपम्' आकार: 'सौम्यता' चन्द्रस्येव द्रष्टुरानन्ददायिता 'असङ्गता' निःस्पृहता, पादवन्दनानन्तरं प्रदक्षिणाऽभिधानं पूज्यानामालोक एव प्रणामः क्रियत इति ख्यापनार्थं, तथा चागमः-"आलोए जिनपडिमाणं पणामं करेति"त्ति। ___ 'प्रतिपृच्छति' प्रश्नयति, तरुणेत्यादिना प्रश्नस्वरूपमुक्तम्, इह च यत एव तरुणोऽत एव प्रव्रजितो भोगकाल इत्युच्यते, तारुण्ययस्य भोगकालत्वात्, यद्वा तारुण्येऽपि रोगादिपीडायां न भोगकालः स्यादित्येवमभिधानं, सोऽपि कदाचित्संयमेऽनुद्यत एव स्यात् त्वं पुनरुपस्थितश्चकृतोद्यमश्च श्रामण्ये, पठन्ति च उवहितोऽसि'त्ति, एनम्, 'अर्थ'निमित्तं येनार्थेन त्वमीदृश्यामप्यवस्थायां प्रव्रजितः शृणोमि 'ता' इति तावत्, पश्चात्तु यत्त्वं भणिष्यसि तदपि श्रोष्यामीति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org