________________
-
उत्तराध्ययन-मूलसूत्रम्-२-२०/७१३ विवक्षितत्वादित्थमभिधानम्, अन्यथा मनुष्यत्वादेरौदयिकादेरपि भावस्य सम्भवात् ३५। ____ परिणाम'त्ति पुलाकाः प्रतिपद्यमानकाः कदाचित्सन्ति कदाचिन्नेति, यदा सन्ति तदा जघन्येनैको द्वौ वा त्रयो वा, उत्कृष्टः शतपृथक्त्वं, पूर्वप्रतिपन्ना अपि यदि स्युस्तदा जघन्येन तथैवोत्कृष्टेन सहस्रपृथक्त्वं, बकुशाः प्रतिपद्यमानका यदा स्युस्तदा जघन्येनोत्कृष्टेन च पुलाकवद्वाच्या, पूर्वप्रतिपन्नकास्तु, जघन्येन कोटिशतपृथक्त्वमुत्कृष्टेनाति तदेव, एवं प्रतिसेवका अपि, कपायकुशीलाः प्रतिपाद्यमानका जघन्येन तथैव उत्कृष्टेन सहस्रपृथक्त्वं, पूर्वप्रतिपन्ना जघन्येनोत्कृष्टेन च कोटिसहस्रपृथक्त्वं, निर्ग्रन्थाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेन द्विपष्टयधिकं शतं, तत्राष्टोत्तरं शतं क्षपकाणां चतुष्पञ्चाशदुपशमकानां, पूर्वप्रतिपन्नका अपि यदा स्युस्तदा जघन्येन तथैव उत्कृष्टेन शतपृथक्त्वं, स्नातकाः प्रतिपद्यमानका जघन्येन तथैव उत्कृष्टेनाष्टोत्तरं शतं, पूर्वपतिपन्नकास्तु जघन्येनोत्कृष्टेन च कोटिपृथक्त्वम्, इह च जघन्यत उत्कृष्टतस्तु पृथक्त्वमेवोच्यते, तत्र तज्जघन्यं लघुतरमुत्कृष्टं बृहत्तरमिति भावनीयं ३६ । द्वारं। ___'खलु महानिग्गंथाण अप्पबहू'ति 'खलुः' वाक्यालङ्कारे महानिर्ग्रन्थानां द्रव्यनिर्ग्रन्थापेक्षयाऽमीषामेव प्रशस्यमुनीनामल्पबहुत्वं वाच्यमिति शेषः, तथा सर्वस्तोका निर्गन्थास्ततः पुलाकाः सङ्खयेयगुणाः, पुलाकेभ्यः स्नातकाः, स्नातकेभ्यो बकुशाः, बकुशेभ्यः प्रतिसेवकाः, प्रतिसेवकेभ्यः कषायकुशीला इति ३७ द्वारगाथात्रयार्थः ।।
साम्प्रतं निर्ग्रन्थनिरुक्तिद्वारेणोपसंहरनाहनि.[ ४२९] सवाजगंथमुक्का अब्भंतरबाहिरेण गंथेण ।
एसा खलु निज्जुत्ती महानियंठस्स सुत्तस्स ।। वृ. प्राग्वत् । गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीय, तच्चेदम् - मू. (७१३) सिद्धाण नमो किच्चा संजयाणं च भावओ।
अत्थधम्मगई तच्चं, अनुसिढि सुणेह मे। वृ. सितं-बद्धमिहाष्टविधं कर्म तद् ध्मातं-भस्मसाद्भूतमेषामिति सिद्धा:-ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्त हि-"सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति"त्ति, तेभ्यः, कोऽभिप्रायः?-तीर्थकरसिद्धेभ्य इतरेभ्यश्च'नमो' नमस्कारं कृत्वा'-विधाय 'संयतेभ्यश्च' सकलसावधव्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् 'भावतः' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह-अर्थश्च धर्मश्चार्थधौं यदिवाऽर्थ्यते-हितार्थिभिरभिलष्यते इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्योस्तस्य वा गतिः-गत्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छत्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थधर्मवती वा 'तच्चं'ति तथ्याम्-अविपरीताम् 'अनुशिष्टि' हितोपदेशरूपां शिक्षां शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरवचनमेतत्, अनेन च पूर्वोत्तरकालभाविक्रियाद्वयानुगतैककर्तृप्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे ह्यविचलितरूपत्वान्न पूर्वक्रियाकर्तृत्वस्वरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यस्वरूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनी
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org