________________
अध्ययनं - २०, [ नि. ४२८ ]
कुशीलाः सञ्ज्ञोपयुक्ता नो सञ्ज्ञोपयुक्ता, २६ । द्वारम् ।
'आहार' त्ति पुलाकादयो निर्ग्रन्थावसाना आहारका एव, स्नातकस्तु आहारको ऽनाहारको वा २७ । द्वारं ।
तथा‘भव’त्ति पुलाकदयश्चत्वारो जघन्यत एकं भवग्रहणमुत्कृष्टतस्तु पुलाकनिर्ग्रन्थयोस्त्रीणि, बकुशप्रतिसेवककषायकुशीलानामष्टौ स्नातकस्याजघन्योत्कृष्टमेकमेव २८ । द्वारं ।
‘आगरिस’त्ति आकर्षणमाकर्ष:, स चेह सर्वविरतेर्ग्रहणमोक्षौ, पुलाकादीनां चतुर्णां जघन्येनैकभविक एव एवाकर्षः, उत्कृष्टेन पुलाकस्य त्रयो बकुरप्रतिसेवककषायकुशीलानां शतशो, निर्ग्रन्थस्य द्वौ, स्नातकस्याजघन्योत्कृष्ट एकः, नानाभविकाकर्षायेपक्षया पुलाकादीनां चतुर्णां जघन्येन द्वौ उत्कृष्टेन पुलाकस्य सप्त, बकुशस्य कुशीलद्वयस्य च सहस्रशो, निर्ग्रन्थस्य पञ्च, स्नातकस्य तु नास्त्येव २९ । द्वारं ।
४५
‘काले’त्ति पुलाको जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तं यावद्भतवित, बकुरप्रतिसेवककषायकुशीलास्तु जघन्येनैकसमयमुत्कृष्टेन देशोनां पूर्वकोटिं, निर्ग्रन्थोऽपि जघन्यत एकं समयमुत्केष्टनान्तर्मुहूर्तं तथा च भगवत्याम् - "नियंठे पुच्छा, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं" अन्ये तु निर्ग्रन्थोऽपि जघन्यत उत्कृष्टश्चान्तर्मुहूर्तमेवेति मन्यन्ते, स्नातको जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतो देशोनां पूर्वकोटिम्, एवमेकजीवापेक्षया, बहुजीवापेक्षया तु पुलाकनिर्ग्रन्थौ जघन्य एक समयमुत्कष्टनान्तर्मुहूर्त, बकुशः सर्वाद्धम्, एवं प्रतिसेवककषायकुशीलास्नातका अपि ३० । द्वारम् ।
'अंतरे य'त्ति पुलाकादीनां चतुर्णामन्तरं जघन्येनान्तर्मुहूर्त्तमुत्कृष्टतोऽनन्तं कालं, स च कालतोऽनन्ता उत्सर्पिण्यवसर्पिण्यः, क्षेत्रत उपार्द्धपुद्गलपरावर्त्तो देशोनः, स्नातकस्य नास्त्यन्तरम्, इत्थमेकं प्रति, बहूनां`तु पुलाकानिर्ग्रन्थानां जघन्येनैकसमय उत्कृष्टेन पुलाकस्य सङ्ख्येयानि वर्षाणि निर्ग्रन्थस्य षण्मासाः उक्तं हि - 'सेढि नियमा छम्मासाउ पडिवज्जंतित्ति' शेषाणां नास्त्येव ३१ । द्वारं ।
,
'समुग्धाय'त्ति पुलाकस्य वेदनाकषायमारणान्तिकसमुद्घातास्त्रयो, बकुशप्रतिसेवकयोस्त एव वैक्रियतैजसान्विताः पञ्च, कषायकुशीलस्य तु त एवाहारकसहिताः षड्, निर्ग्रन्थस्यैकोऽपि नास्ति, स्नातकस्य केवलिसमुद्घात एक: ३२ । द्वारं ।
‘खेत्त’त्ति पुलाकादयश्चत्वारो लोकस्यासङ्ख्येयभागे नो सङ्ख्येयभागे न सङ्ख्येयेष्वसङ्ख्येयेषु वा भागेषु नापि सर्वलोके,
स्नातकोऽसङ्ख्येयभागेऽसङ्ख्येयेषु भागेषु सर्वलोके वा, न शेषेषु, तथा च प्रज्ञप्ति:- "सिणाए पुच्छा, गोयमा ! नो संखिज्जे भागे हुज्जा असंखिज्जे भागे हुज्जा नो संखेज्जेसु भागेसु होज्जा असंखिज्जेसु भागेसु हुज्जा सव्वलोए वा होज्जति" चूर्णिकारस्त्वाह-सङ्ख्येयभागादिषु सर्वेषु भवति ३३ । द्वारं ।
Jain Education International
'फुसणा उ' त्ति स्पर्शना च क्षेत्रवद्वाच्या ३४ | द्वारं ।
'भावे'त्ति पुलाकादयस्त्रयः क्षायोपशमिके भावे निर्ग्रन्थ औपशमिके क्षायिके वा, स्नातकः क्षायिके, इह तु पुलाकादयो निर्ग्रन्थाः, निर्ग्रन्थत्वं तु चारित्रनिमित्तमिति तद्धेतुभूतस्यैव भावस्य
For Private & Personal Use Only
www.jainelibrary.org