________________
उत्तराध्ययन- मूलसूत्रम् - २ - २० / ७१३ ‘उवओग’त्ति, पुलाकादयश्चत्वारो मतिश्रुतावधिमनः पर्यायभेदतश्चतुर्भेदे साकारोपयोगे चक्षुरचक्षुरवधिविकल्पतस्त्रिविधे चानाकारोपयोगे स्युः, स्नातकः केवलज्ञानदर्शनाख्ययोर्द्वयोरेव १८ । द्वारं ।
'कसाय'त्ति पुलाकबकुशप्रतिसेवकाः संज्वलनकषायैश्चतुः कषायाः कषायकुशीलश्चतुर्षु संज्वलनक्रोधादिषु त्रिषु द्वयोरेकस्मिन् वा स्यात्, निर्ग्रन्थोऽकषायः स चोपशमतः क्षयतो वा, एवं स्नातको, नवरमसौ क्षीणकषाय एव १९ । द्वारं ।
४४
'लेस' त्ति पुलाकबकुशप्रतिसेवकाः पीतपद्मशुक्लाभिधानासु तिसृषु लेश्यासु, कषायकुशीलः षट्स्वपि, निर्ग्रन्थः शुक्लेश्यायां, स्नातकस्तस्यामेवातिशुद्धायाम्, २० । द्वारं ।
'परिणामे य'त्ति पुलाकबकुशप्रतिसेवककषायकुशीला वर्द्धमाने हीयमानेऽवस्थिते वा परिणामे स्युः, निर्ग्रन्थस्नातकौ वर्द्धमानवस्थितपरिणामावेव, तत्र च पुलाकदयस्त्रयो वर्द्धमाने परिणामे, अवस्थिते तु जघन्येनैकं समयं समयानन्तरं कषायकुशीलत्वादिगमनने मरणेन वा, नवरं पुलाकस्य मरणं नास्ति, उक्तं च- "पुलाके तत्थ नो मरति" त्ति । उत्कृष्टेनान्तर्मुहूर्त्तम्, एवं हीयमानेऽपि, अवस्थिते तु जघन्येनैकं, समयम् उत्कृष्टेनान्तर्मुहूर्तं, तथा चागमः - "नियंठे णं भंते! केवतियं कालं वद्धमाणपरिणामे होज्जा ?, गोयमा ! जहन्त्रेणं अंतोमुहुत्तं, उक्कोसेणपि अंतोमुहुत्तं । केवइयं कालं अवट्ठियपरिणामे होज्जा ?, गोयमा ! जहन्त्रेणं एक्कं समयं उक्कोसेणं अंतोमुहुत्तं 'ति । अपरे व्यमृत्कृष्टताऽवस्थितपरिणामे सप्त समयानित्यादुः, स्नातको जघन्येन उत्कृष्टेन च वर्द्धमानपरिणामेऽन्तर्मुहूर्त्तमवस्थितपरिणामे जघन्यतोऽन्तर्मुहूर्त्तमुत्कुष्टेन देशोनां पूर्वकोटी २१ । द्वारं ।
'बंधन'त्ति कर्मबन्धनं, तत्रायुर्वर्जा:, सप्त कर्मप्रकृती: पुलाकोबन्धाति, बकुशप्रतिसेवकौ सप्त अष्टौ वा आयुषोऽपि तर्योर्बन्धसम्भवात्, कषायकुशीलाऽष्टौ सप्त षड्वाऽऽयुर्मोहवर्जाः, निर्ग्रन्थस्त्वेकमेव सातं, स्नातकोऽप्येवंमबन्धको वा २२ । द्वारं ।
,
'उदयं'ति कर्मोदयः, पुलाकबकुशप्रतिसेवककषायाकुशीला अष्टविधमपि कर्म वेदयन्ते, निर्ग्रन्थो मोहवर्जा: सप्त, स्नातको वेद्यायुर्नामगोत्राख्याश्चतस्रः २३ । द्वारं ।
'कम्मोदीरण 'त्ति पुलाक आयुर्वेदनीयवरजाः षट् कर्मप्रकृतिरुदीरयति, बकुशप्रतिसेवकावष्टावायुर्वर्जाः, सप्त षड् आयुर्वेदनीयवर्जाः, कषायस्त्वेते एव द्वे अनुदीरको वा २४ । द्वारं ।
‘उवसंपजहण’त्ति उवसंपदनम् - उपसम्पद-अन्यरूपप्रतिपत्तिः, सा च हानं च स्वरूपपरित्याग उपसम्पद्धानं, तत्र पुलाकः पुलाकतां त्यजंस्तां परित्यजति कषायकुशीलत्वमसंयमं वोपसम्पद्यते, कोऽभिप्रायः ? - न रूपान्तरापत्तिं विना पूर्वरूपपरित्यागो नापि तत्परित्यागं विना तदापत्तिः, कथञ्चिन्नित्यानित्यरूपत्वाद्वस्तुनः, एवं सर्वत्र भावनीयं, बकुशोऽपि बकुशतां त्यजन् तां परित्यजति प्रतिसेवकत्वं कषायकुशीलत्वमसंयमं संयमासंयमं वोपसंपद्यते, प्रतिसेवनाकुशील: प्रतिसेवनाकुशीलत्वं त्यंजस्तत्परित्यजति पुलाकादित्रयं निर्ग्रन्थत्वमसंयमं संयमासंयम वोपसम्पद्ते, निर्ग्रन्थो निर्ग्रन्थत्वं त्यजंस्तत्परित्यजति कषायकुशलीत्वं स्नातकत्वमसंयमं वोपसम्पद्यते, स्नातकः स्नातकत्वं त्यजंस्तत्परित्यजति सिद्धिगतिमुपसम्पद्यते २५ । द्वारं । 'सन्न'त्ति सञ्ज्ञा, तत्र पुलाकनिर्ग्रन्थस्नातका नोसञ्ज्ञोपयुक्ताः, बकुशप्रतिसेवककषाय
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org