________________
४८
भाव इति श्लोकसप्तकार्थः ॥ इत्थं राज्ञोक्ते मुनिराह
नू. ( ७२१ )
उत्तराध्ययन- मूलसूत्रम् - २ - २० / ७२०
अनाहो मि महाराय !, नाहो मज्झ न विज्जई । अनुकंपयं सुहिं वावि, कंची नाहि तुमे महं ॥
वृ.‘अनाथः' अस्वामिकोऽस्मीत्यहं 'महाराज !' प्रशस्यनृपते!, किमित्येवं ? यतो 'नाथः ' योगक्षेमविधाता मम न विद्यते, तथा 'अनुकंपगं'ति आर्पत्वादनुकम्पको यो मामनुकम्पते, 'सुहिं'ति तत एव सुहृद् 'वावि' त्ति प्राग्वदेव 'कंचित्ति कश्चिन विद्यते, ममेति सम्बन्धः, 'नाहि 'त्ति प्रक्रमादनन्तरोक्तमर्थं जानीहि 'तुमि 'त्ति त्वं, पठ्यते च - 'कंची नाभिसमेमहं' कञ्चिदनुकम्पकं सुहृदं वाऽपि 'नाभिसमेंमि' नाभिसंगच्छामि, न केनचिदनुकम्पेन सुहृदा वा सङ्गतोऽहमित्यादिनाऽर्थेन तारणुयेऽपि प्रव्रजित इति भाव इति सूत्रार्थः ॥ एवं च मुनिनोक्तेतो सो पहसिओ राया, सेणिओ मगहाहिवो । एवं ते इड्डिमंतस्स, कहं नाहो न विज्जई ? ॥ होमि नाहो भयंताणं, भोगे भुंजाहि संजया ! | मित्तनाईपरिवुडो, मानुस्सं खु सुदुल्लाहं ॥
मू. ( ७२२ )
मू. (७२३)
वृ. सूत्रद्वयं प्रतीतार्थमेव, नवरम् 'एव' मिति दृश्यमानप्रकारेण 'ऋद्धिमतः ' विस्मयनीयवर्णादिसम्पत्तिमतः 'कथम्' इति केन प्रकारेण नाथो न विद्यते ?, तत्कालापेक्षया सर्वत्र वर्त्तमाननिर्देशः, “यत्राकृदिस्तत्र गुणा वसन्ति' तथा 'गुणवति धनं ततः श्रीः श्रीमत्याज्ञा ततो राज्य' मिति हि लोकप्रवादः, तथा च न कथञ्चिदनाथत्वं भवतः संभवतीति भाव:, यदि चानाथतैव भवतः प्रव्रज्याप्रतिपत्तिहेतुस्तत: 'होमि'त्ति भवाम्यहं 'भदन्तानां' पूज्यानां ततश्च मयि नाथे मित्राणि ज्ञातयो भोगाश्च तव सुलभा एवेत्यभिप्रायेण भोगेत्वाद्युक्तवान्, मानुष्यं खलु सुदुर्लभमिति च हेत्वभिधानमिति सूत्रद्वयार्थः ॥ मुनिराह
मू. ( ७२४ )
मू. ( ७२५ )
मू. ( ७२६ )
मू. ( ७२७)
अप्पणावि अनाहोऽसि, सेनिया ! मगहाहिवा । अप्पाणा अनाहो संतो, कहं नाहो भविस्ससि ? ॥ एवं वृत्तो नरिंदो सो, सुसंभंतो सुविम्हिओ । वयणं अस्सु अपुव्वं, साहुणा विम्हयं निओ ॥ अस्सा हत्थी मनुस्सा मे, पुरं अंतेउरं च मे / भुंजामि मानुसे भोए, आणा इस्सरियं च मे ॥ एरिसे संपयग्गमि, सव्वकामसमप्पिओ । कहं अनाहो भवई ?, मा हु भंते! मुसं वए ॥ वृ. 'अप्पणावि' सूत्रं सुगमेव, एवं च मुनिनोक्ते एवं सूत्रत्रयं स्पष्टमेव, नवरमाद्यस्य घटनैवंस श्रेणिकनामा नरेन्द्रोविस्मयान्वित: प्रागपि रूपादिविषयविस्मयोपेतः सन् 'एवम्' उक्तनीत्या वचनमात्मनाऽप्यनाथस्त्वमित्यादिरूपम श्रुतपूर्वं साधुनोक्तः सुसम्भ्रान्तः - अत्याकुलः सुविस्मितश्च - अतीव विस्मयोपेतो भूत्वोक्तवानिति शेषः, यदुक्तवांस्तदाह-'अस्सा' इत्यादिना सूत्रद्वयेन, अत्र चाश्वा से सन्तीत्यादिक्रिया सर्वत्राध्याहर्त्तव्या, अत एव भुनज्मि 'मानुसित्ति मानुष्यकान् भोगान् ‘आज्ञा' अस्सखलितशासनात्मिका 'ऐश्वर्यं च ' द्रव्यादिसमृद्धिः, यद्वा
Jain Education International
For Private & Personal Use Only
,
www.jainelibrary.org