________________
४१
अध्ययनं-२०,[नि. ४२३]
(अध्ययनं २० महानिर्ग्रन्थीयं वृ. व्याख्यातमेकोनविंशमध्ययम्, अधुना विंशतितमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने निष्पन्नतिकर्मतोक्ता, इयं चानाथत्वपरिभावनेनैव पालयितुं शक्येति महानिर्ग्रन्थहितमभिधातुमनाथतैवानेकधाऽनेनोच्यते इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत् यावन्नामनिप्पत्रनिक्षेपे महानिर्ग्रन्थीयमिति नाम, क्षुल्लकप्रतिपक्षश्च महान् इति क्षुल्लकस्य निर्ग्रन्थस्य च निक्षेपमाह नियुक्तिकृत्नि.[ ४२३] नामं ठवणादविए खित्ते काले अठाण पइ भावे।
एएसि खुड्डगाणं पडिवक्ख महंतगा हुंति ।। नि.[ ४२४] निक्खेवो नियंठमि चउक्कओ दुविह० ।। नि.[ ४२५] जाणगसरीरभविए तव्वइरित्ते अनिण्हगाईसु।
भावे पंचविहे खलु इमेहिं दारेहिं सो नेओ ।। वृ.अत्र च नामस्थापने सुगमे, द्रव्यक्षुल्लकादीनि क्षुल्लकनिर्ग्रन्थीयाध्ययन एव महत्प्रतिपक्ष व्याख्यानयद्भिर्व्याख्यातानीति न पुनः प्रतन्यन्ते। 'निक्खेवो नियंठंमी'त्यादि प्रतीतार्थं, नवरम् 'एभिः' इति वक्ष्यमाणैः 'द्वारेः' व्याख्यानोपायैः 'सः' इति निर्ग्रन्थो ज्ञेय इति गाथात्रयार्थः ।। तानि चामूनि द्वाराणि
नि.[४२६] पन्नवण १ वेय २ रागे ३ चरित्त ५ पडिसेवणा ६ नाणे ७। तित्थ ८ लिंग ९ सरिर १० खित्ते ११ काल १२ गइ १३ ठिइ १४ संजम १५ निगासे १६॥ नि.[४२७]जोगु १७ वओग १८ कसाए १९ लेसा २० परिणाम २१ बंधने २२ उदए २३
कम्मोदीरण २४ उवसंपजहण २५ सन्ना २६ य आहारे २७॥ नि.[ ४२८] भावा २८ ऽऽगरिसे २९ कालं ३० तरे ३१ समुग्धाय ३२ खित्त ३३
फुसणा य ३४। भावे ३५ परिणामे ३६ खलु महानियंठाण अप्पबहू ३७॥ वृ. तत्र प्रज्ञापना-स्वरूपनिरूपणं, तच्चैषां क्षुल्लकनिर्ग्रन्थीयाध्ययन एवाभिहितमिति नेहाभिधीयते १ द्वारं। ___ 'वेद'त्ति वेदः-स्त्रीपुनपुंसकभेदः, तत्र पुलाकः पुनपुंसकवेदयोर्न तु स्त्रीवेदे, तत्र तथाविधलब्धेरभावात्, बकुशः स्त्रीपुंनपुंसकवेदस्तेपु त्रिष्वपि, एवं प्रतिसेवनाकुशीलोऽपि, कषायकुशीलः, सवेदो वा स्यादवेदो वा, यदि सवेदस्त्रिष्वपि वेदेषु, अथावेद उपशान्तवेदः क्षीणवेदो वा, निर्ग्रन्थस्त्ववेद एव, सोऽप्युशान्तवेदः क्षीणवेदो वा, एवं स्नातकोऽपि, न त्वसावुपशान्तवेदः, क्षीणमोहत्वात्, २ द्वारं।
'राग' इति पुलाकबकुशप्रतिसेवककषायकुशीला: सरागा एव, कषायोदयवर्तित्वात्तेषां, निर्ग्रन्थो वीतरागः, सचोपशान्तकषायवीतरागः क्षीणकषायो वा वीतरागः, एवं स्नातकोऽपि, नवरमयं क्षीणकषायवीताग एव ३ । द्वारं।
'कप्पो'त्ति 'कल्प:' स्थितास्थितकल्पो जिनकल्पादिर्वा, तत एव पुलाकादयः किं स्थितकल्पेऽस्थितकल्पे वा?, द्वयोरपि स्युः, स्थविरकल्पादिरूपकल्पापेक्षया तु पुलाकः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org