SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४० उत्तराध्ययन-मूलसूत्रम्-२-१९/७०९ त्वादिविषयाभिर्वा 'विशुद्धाभिः' निदानादिदोषरहिताभिर्भावयित्वा-तन्मयतां नीत्वा 'अप्पयं'ति आत्मानं, 'मासिएण उ भत्तेणं'ति मासे भवं मासिकं तेन तुः पूरणे 'भक्तेन' भोजनेन मासोपवासोपलक्षणकत्वादस्य मासोपवासेनेतियावत् 'सिद्धि' निष्ठितार्थतां सकलकर्मक्षयेणेति गम्यते, अनुत्तरां' सकलसिद्धिप्रधानाम्, अनेनाञ्जनसिद्धयादिव्यवच्छेदमाहेति सूत्रद्वयार्थः ।। इड्डीत्यादिसूत्रकदम्बकस्य तात्पर्यार्थमाह नियुक्तिकृत्नि.[ ४२२] इड्डीए निक्खंतो काऊं समणत्तणं परमघोरं। तत्थ गओ सो धीरो जत्थ गया खीणसंसारा ।। वृ. सुगमैव, नवरम्, 'ऋद्धया' दीनानाथदानादिकया विभूत्या निष्क्रान्तः सन् ‘परमघोरं' कातरजनातिशयदुरनुचरं यत्र गताः क्षीणसंसारा इति मोक्ष इत्यभिप्राय इति गाथाऽवयवार्थः॥ साम्प्रतं सकलाध्ययनार्थोपसंहारद्वारेणोपदिशन्नाह सूत्रकृतमू.(७१०) एवं करंति संबुद्धा, पंडिया पवियखणा। विनियटुंति भोगेसु, मियापुत्ते जहामिसी। व. व्याख्यातप्रायमेव, संगता प्रज्ञा येषां ते संप्रज्ञाः संपन्ना वा ज्ञानादिभिः 'जहामिसि'त्ति मकारोऽलाक्षणिको यथेत्यौपम्याभिधायी 'ऋषिः' मुनिरिति सूत्रावयमार्थः । इत्थमन्योक्त्योपदिश्य पुनर्भङ्गयन्तरेणोपदिशन्नाहमू. (७११) महप्पभावस्स महाजसस्स, मियाइपुत्तस्स निसम्म भासियं। तवप्पहाणं चरियं च उत्तम, गइप्पहाणं च तिलोअविस्सुतं॥ मू. (७१२) वियाणिया दुक्खविवड्ढणं धनं, ममत्तबंधं च महाभयावहं। सुहावहं धम्मधुरं अनुत्तरं, धारेह निव्वाणगुणावह महं।। तिबेमि॥ वृ.सूत्रद्वयं निगदसिद्धमेव, नवरं मृगापुत्रस्य भाषितं' संसारदुःखरूपतावेदकं यत्तेन पित्रोः पुरत उक्तं, प्रधानं तपो यत्र चरिते तत्प्रधानतपो, व्यत्ययनिर्देशश्च प्राग्वत्, 'चरितं' च चेष्टितं 'गतिप्पहाणं च' इति प्रधानगतिं च मुक्तिमिति योऽर्थः, त्रिलोकविश्रुतां' जगन्त्रितयप्रतीताम्, अनेन च फललिप्सवो हि प्रेक्षावन्तः प्रवर्त्तन्त इति काक्वा फलमाह एतान्निशमनाश्च ममत्वं बन्ध इव सत्प्रवृत्तिविधातितया मात्वबन्धस्तं च, महाभयावहं तत एव चौरादिभ्यो महाभयावहं तत एव चौरादिभ्यो महाभयावाप्तेः, धर्मो धूरिव महासत्त्वैरुह्यमानतया धर्मधुरा-महावत्रपञ्चकात्मिका तां, तथा निर्वाणगुणा-अनन्तज्ञानदर्शनवीर्यसुखादयस्तदावहां-तत्प्रापिकां धर्मधुरां धारयतेति सम्बन्धः । इह च निवार्णगुणावहत्वं सुखावहत्वे हेतुः 'महंति' अपरिमितमाहात्म्यतया महतीं, सूत्रत्वाच्चैवं निर्देश इति सूत्रद्वयार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, सम्प्रति नयास्तेऽपि प्राग्वदेव ॥ अध्ययनं १९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता उत्तराध्ययनसूत्रे एकोनविशंतितमध्ययनं सनियुक्तिः सटीकं समाप्तम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy