SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ ३९ अध्ययनं-१९,[नि.४२१] समो निंदापसंसासु, तहा मानावमानओ। मू. (७०५) गारवेसु कसाएसु, दंडसल्लभएस अ। नियत्तो हाससोगाओ, अनियाणो अबंधणो। मू. (७०६) अनिस्सिओ इह लोए, परलोए अनिस्सिओ। वासीचंदनकप्पो अ, असने अनसने तहा॥ मू. (७०७) अप्पसत्थेहिं दारेहि, सव्वओ पिहियासवो। अज्झप्पझाणजोगेहि, पसत्थदमसासनो। वृ. सूत्रपटकं निगदसिद्धमेव, नवरं 'सब्भितरबाहिरिए'त्ति सहाभ्यन्तरैः--प्रायश्चित्तादिभिर्वाह्येश्च-अनशनादिभिभैदैवर्त्तत इति सबाह्याभ्यन्तरं तस्मिन्, प्रधानत्वाच्च प्रथममभ्यन्तरोपादानं ।। 'निर्मम:' ममत्वबुद्धिपरिहारतः 'निस्सङ्गः' सङ्गहेतुधनादित्यागतः 'समश्च' न रागद्वेषवानिर्ममत्वादेरेव॥ लाभेत्य्दिना समत्वमेव प्रकारान्तरेणाह, अत्र च 'समः' नलाभादौ चित्तोत्कर्षभाग्नाप्यलाभादौ दैन्यवान्, जीविते मरणे समो, नैकत्राप्याकाङ्क्षावान्, 'मानावमानओ'त्ति मानापमानयोः, गौरवादीनि सूत्रे सुब्ब्यत्ययेन सप्तम्यन्ततया निर्दिष्टानि पञ्चम्यन्ततया व्याख्येयानि, निर्वृत्त इति च सर्वत्र सम्बन्धनीयम्, 'अबन्धनः' रागद्वेषबन्धनरहितः । __अत एव अनिश्रितः' इहलोके परलोके वाऽनिश्रितो नेहलोकार्थं परलोकार्थं वाऽनुष्ठानवान् 'नो इहलोगट्ठयाए तवमहिढेज्जा नो परलोगट्ठयाए तवमहिढेज्जा' इत्याद्यागमात् पुनरनिश्रिताभिधानं च मन्दमतिविनेयानुग्रहार्थमदुष्टमेव, वासीचन्दनकल्प इत्यनेन समत्वमेव विशेषत आह, वासीचन्दनशब्दाभ्यां च तद्वयापारकपुरुषावुपलक्षितौ, ततश्च यदि किलैको वास्या तक्ष्णोति, अन्यश्च गोशीर्षादिना चन्दनेनालिम्पति, तथाऽपि रागद्वेषाभावतो द्वयोरपि तुल्यः, कल्पशब्दस्येह सदृशपर्यायात्वात्, ‘अनशने' इति च नाऽभावे कुत्सायां वा, ततश्चाशनस्यभोजनस्याभावे कुत्सिताशनभावे वा कल्पः, इह चेष्टितोऽधिकाराणां प्रवृत्तिरिति पूर्वत्र समस्तमपि कल्प इत्यनुवर्तते, अप्रशस्तेभ्यः' प्रशंसाऽनास्पदेभ्यः 'द्वारेभ्यः' कर्मोपार्जनोपायेभ्यो हिंसादिभ्यः 'सर्वतः' सर्वेभ्यो य आश्रवः-कर्मसंलगनात्मकः स पिहितः-तद्वारस्थगनतो निरुद्धो येनासौ पिहिताश्रवः, सापेक्षस्यापि गमकत्वात्समासः, यद्वाऽप्रशस्तेभ्यो द्वारेभ्यः सर्वेभ्यो निर्वृत्त इति गम्यते, अत एव पिहिताश्रवः, कैः पुनरयमेवंविधः?-अध्यात्मेत्यात्मनि ध्यानयोगा:शुभध्यानव्यापारा अध्यात्मध्यानयोगास्तेः, अध्यात्मग्रहणं तु परस्थानां तेषामकिञ्चित्करत्वाद्, अन्यथाऽतिप्रसङ्गात्, प्रशस्तः प्रशंसास्पदो दमश्च-उपशमः शासनं च-सर्वज्ञागमात्मकं यस्य स प्रशस्तदमशानस इति सूत्रषट्कार्थः । सम्प्रति तत्फलोपदर्शनायाहमू. (७०८) एवं नाणेन चरणेन, दंसणेन तवेन य। भावनाहि विसुद्धाहि, सम्मं भावि तु अप्पयं॥ मू. (७०९) बहुयाणि उ वासाणि, सामन्त्रमनुपालिया। मासिएण उ भत्तेणं, सिद्धिं पत्तो अनुत्तरं। वृ.सूत्रद्वयमुत्तानार्थमेव, नवरं 'भावनाभिः' महाव्रतसम्बन्धिनीभिर्वक्ष्यमाणाभिरनित्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy