________________
उत्तराध्ययन-मूलसूत्रम्-२-१९/७०१ यथासुखं तेऽस्त्विति शेषः, एवं चानुज्ञातः सन् 'जहाति' त्यजति उपधिम्-उपकरणमाभरणादि द्रव्यतो भावतस्तु छयादि येनात्मा नरक उपधीयते, ततश्च प्रव्रजतीत्युक्तं भवति । उक्तमेवार्थं सविस्तरमाह-'सव्वदुक्खविमोक्खणि' सकलासातविमुक्तिहेतुं 'तुब्भेहिं'ति युवाभ्यामम्ब! उपलक्षत्वाप्तिपतश्च 'अनुज्ञातः' अनुमतः सन्, तावाहतुः-गच्छ मृगर्चयेति प्रक्रमः पुत्र ! 'यथासुखं' सुखानतिक्रमेण ।
'अनुमन्य' अनुज्ञाप्य 'ममत्वं' प्रतिबन्धं 'छिनत्ति' अपनयति महानाग इव कचुंक, यथाऽसावतिरोपधित्याग उक्तः, बहिरुपधित्यागमाह-'ऋद्धिं' करितुरगादिसम्पदं 'वित्तं' द्रव्यं 'नायओ'त्ति 'ज्ञातीन्' सोदरादीन् 'नि«णित्त'त्ति निर्द्धयेव निर्दूय त्वक्त्वेतियावत् 'निर्गतः' निष्क्रान्तो गृहादिति गम्यते, प्रवजित इति सोऽर्थः ।। इति सूत्रचतुष्टयार्थः ।। नि.[४१८] नाऊण निच्छयमई एव करेहित्ति तेहिं सो भणिओ।
धन्नोऽसि तुमं पुत्ता! जंसि विरत्तो सुहसएसु॥ नि.[ ४१९] सीहत्ता निक्खमिउं सीहत्ता चेव विहरसू पुत्ता ! |
जह नवरि धम्मकामा विरत्तकामा उविहरंति॥ नि.[४२०] नाणेन दंसणेन य चरित्ततवनियमसंजमगुणेहिं।
खंतीए मुत्तीए होहि तुमं वड्डमानो उ॥ नि.[४२१] संवेगजणिअहासो मुक्खगमणबद्धचिंधसन्नाहो।
अम्मापिऊण वयणं सो पंजलिओ पडिच्छीय ।। वृ. गाथाचतुष्टयं पाठसिद्धमेव, नवरमाद्यगाथात्रयेण 'एवं पुत्र ! यथासुख' मित्येतत्सूचितार्थाभिधानतो व्याख्यातं, चतुर्थगाथया त्ववशिष्टसूत्रं भावार्थाभिधानतः, 'सुखशतेभ्य' इति बहुत्वोपलक्षणं शतग्रहणं, 'सीहत्ता' इति सिंहतथा 'निष्क्रम्य' प्रव्रज्य सिंहतयैव विहर 'पुत्र!' इति जात!, किमुक्तं भवति?-यथा सिंह: स्वस्थानादिनिरपेक्ष एव निष्क्रामति, निष्क्रम्य च तथैव निरपेक्षवृत्त्या विहरति, एवं त्वमपि विहरेति, 'नवरं'ति परं धर्म एव कामः- अभिलाषो येषां ते धर्मकामाः, 'विरक्तकामे'त्ति प्राग्वत् 'कामविरक्ताः' विषयपरांमुखाः, 'चरित्रतपोनियमसंयमगुणैः 'रित्यत्र चारित्रान्तर्गतत्वेऽपि तपःप्रभृतीनामुपदेशात्सामान्यविशेषयोश्च कथञ्चिद्भिन्नत्वाच्च न पौनरुक्त्यं, तथा संवेगो-मोक्षाभिलाषस्तेन जनितो हासो-मुखविकाशात्मकोऽस्येति संवेगजनितहासः-मुक्त्युपायोऽयं दीक्षेत्युत्सवमिव तां मन्यमानः प्रहसितमुख इत्यर्थः, पठन्ति च-'संवेगजणियसुद्धो'त्ति स्पष्टमेव, तथा मोक्षो-मुक्तिस्तद्गमनाय बद्धमितिधृतं चिह्न-धर्मध्वजादि तदेव सन्नाहो-दुर्वचनशरप्रसरनिवारकः क्षान्त्यादि, येन स तथा, 'पडिच्छीय'त्ति प्रत्यैषीत्' प्रतिपन्नवानिति गाथाचतुष्टयार्थः।। ततोऽसौ कीहक् सञ्जात इत्याहमू. (७०२) पंचमहव्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो अ।
सभितरबाहिरिए, तवोकम्ममि उज्जुओ॥ मू. (७०३) निम्ममो निरहंकारो, निस्संगो चत्तगारखो।
समो अ सव्वभूएसु, तसेसु थावरेसु अ। मू. (७०४) लाभालाभे सुहे दुक्खे, जीविए मरणे तहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org