________________
अध्ययनं-१९,[नि. ४१७] भक्तमिव भक्तं तद्भक्ष्यं-तृणादि तच्च पानं च भक्तपानं तस्य 'अर्थाय' प्रयोजनाय, गोचरमेव विशेषत आह-'वल्लराणि' गहनानि, उक्तञ्च-"गहणमवाणियदेसं रन्ने छेत्तं च वल्लरं जाण" 'सरांसिच' जलस्थानानि। स्वादित्वा निजभक्ष्यमिति गम्यते, वल्लरेषु सर:सुवेति सुब्ब्यत्ययेन नेयं, तथा मृगाणां चर्या-इतश्चेतश्चोत्प्लवनात्मकं चरणं मृगचर्या तां, 'मितचारितां' वा परिमितिभक्षणात्मिकां 'चरित्वा' आसेव्य परिमिताहारा एव हि स्वरूपेणैव मृगा भवन्ति, विशेषाभिधायित्वाच्च न पौनरुक्त्यं, ततश्च 'गच्छति' याति मृगाणां चर्या-चेष्टा स्वातन्त्रयोपवेशनादिका यस्यां सा मृगचर्या-मृगाश्रयभूस्ताम्।।
अनेन च सूत्रपञ्चकेन दृष्टांत उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येतदुपसंहारः, इह च 'एव'मिति मृगवत्समुत्थितः-संयमानुष्ठानं प्रत्युद्यतस्तथाविधाऽऽतङ्कोत्पत्तावपि न कश्चित् चिकित्साऽ-- भिमुख इति भावः, 'एवमेव' मृगवदेव अनेगय'त्ति अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते किन्तु कदाचित्क्वचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च-'अनिएयणे'त्ति 'अनिकेतनः' अगृहः, स चैवं मृगचर्यां चरित्वा मृगवदातङ्काभावे भक्तपानार्थं गोचरं गत्वा तल्लब्धभक्तपानोपष्टम्भतश्च विशिष्टसम्यग्ज्ञानादिभावतः शुक्लध्यानारोहणादपगताशेषकर्मांश ऊर्ध्वं दिशमिति सम्बन्धः प्रकर्ण कामति-गच्छति प्रक्रामति, किमुक्तं भवति?-सर्वोपरिस्थानस्थितो भवति, निर्वत इतियावत्, एवं च निर्वृतिरेवेह मृगचर्योपमार्थत उक्ता, तत्र हि मृगोपमा मुनय इत इतश्चाप्रतिबद्धविहारितया विहत्य गच्छन्तीति। मृगचर्यामेव स्पष्टयितुमाहयथा मृगः 'एग'त्ति 'एकः' अद्वितीयः 'अनेकचारी' नैकत्रैव भक्तपानार्थं चरतीत्येवंशीलः, 'अनेकवासः' नैकत्र वासः-अवस्थानमस्यास्तीति, 'ध्रुवगोचरश्च' सर्वदा गोचरलब्धमेवाहारमाहारयतीति, एवं' मृगवदेकत्वादिविशेषणविशिष्टो मुनिः 'गोचर्यां' भिक्षाटनं प्रविष्टो न 'हीलयेद्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिसएज्ज'त्ति निन्देत्तथा-' विधाहाराप्राप्तौ स्वं परं वा। ___ इह च मृगपक्षिणामुभयेषामुपक्षेपे यन्मृगस्यैव पुनः पुनर्दष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राष्टकार्थः॥ एवं मृगचर्यास्वरूपमुक्त्वा यत्तेनोक्तं यच्च पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाहमू. (६९८) मिगचारियं चरिस्सामि, एवं पुत्ता! जहासुहं।
अम्मापिऊहिंऽनुन्नाओ, जहाइ उवहिं तओ॥ मू. (६९९) मिगचारियं चरिस्सामो, सव्वदुक्खविमुक्खणि।
तुब्भेहिं अब्म ! ऽनुनाओ, गच्छ पुत्त ! जहासुहं। मू. (७००) एवं सो अम्मापियरं, अनुमानित्ता न बहुविहं।
ममत्तं छिंदई ताहे, महानागुव्व कंचुयं। मू. (७०१) इड्डी वित्तं च मित्ते य, पुत्तदारं च नायओ।
रेणुअंव पडे लग्गं, निद्धणित्ता न निग्गओ। वृ. गाथा चतुष्टयं स्पष्टमेव, नवरं मृगस्येव चर्या-चेष्टा मृगचर्या तां निष्प्रतिकर्मतादिरूपां चरिष्यामीति बलश्रिया युवराजेनोक्ते पितृभ्यामभाणि-एयं यथा भवतोऽभिरुचित्तं तथा For Private & Personal Use Only
www.jainelibrary.org
Jain Education International