________________
४२
उत्तराध्ययन- मूलसूत्रम् - २ - २० / ७१२ स्थविरकल्पे जिनकल्पे वा, न तु कल्पातीत:, तथा चागमः- “पुलाए णं भंते! किं जिनकप्पे होज्जा ? थेरकप्पे होज्जा ? कप्पाईए होज्जा ?, गोयमा ! जिनकप्पे वा होज्जा थेरकप्पे वा होज्जानो कप्पातीते होज्ज "त्ति, अन्ये त्वाहु:- स्थविरकल्प एवेति, बकुशप्रतिसेवनाकुशीलावपि जिनकल्पे स्थविरकल्पे वा, न तु कल्पातीतौ कषायकुशीलस्त्रिष्वपि स्यात्, निर्ग्रन्थस्नातकारौ कल्पातीतावपि ४ । द्वारं ।
'चरित' मिति पुलाकबकुशप्रतिसेवनाकुशीलाः सामायिकच्छेदोपस्थापनीययोः, कषायकुशीलश्चैतयोः परिहारविशुद्धसूक्ष्मसंपराययोश्च निर्ग्रन्थो यथाख्यात एव एवं स्नातकोऽपि ५ । द्वारं ।
'पडिसेवण'त्ति, पुलाकः प्रतिसेवको नाप्रतिसेवकः, स हि मूलगुणोत्तरगुणानामन्यतमविराधनात एव भवति, बकुशोऽपि प्रतिसेवक एव, नवरमुत्तरगुणविराधनातः, प्रतिसेवनाकुशील: पुलाकवत्, कषायकुशीलनिर्ग्रन्थस्नातका अप्रतिसेवका एव ६ द्वारं ।
(1
'नाण'त्ति पुलाकबकुशप्रतिसेवका द्वयो ज्ञानयोस्त्रिपु वा, तत्र द्वयोर्मतिश्रुतयोस्त्रिषु मतिश्रुतावधिषु, इह च पुलाकस्य श्रुतं नवमपूर्वतृतीयाचारवस्तुन आरभ्य यावन्नय पूर्वाणि, उक्तं हि'आरतो परओ वा न लद्धी लभइ" कषायकुशीलो द्वयोस्त्रिषु चतुर्षु वा, तत्र द्वयोर्मति श्रुतयोस्त्रिपु मतिश्रुतावधिषु मतिश्रुतमनः पर्यायेषु (वा चतुर्षु) मतिश्रुतावधिमनः पर्यायेषु, निर्ग्रन्थोऽप्येवमेव, स्नातकस्तु केवलज्ञान एव, श्रुतज्ञाने तु कः कुत्र वर्त्तते इतल् क्षुल्लकनिर्ग्रन्थीय एवोक्तत्वान्न पुनरुच्यते ७ द्वारं ।
'तित्थ’'त्ति इहच ‘तीर्थं' यत्तीर्थकरेण क्रियते, पुलाको बकुशप्रतिसेवकौ च तीर्थे, कषायकुशीलस्तु तीर्थेऽतीर्थे वा अतीर्थे च भवन् तीर्थकरो वा स्यात् प्रत्येकबुद्धो वा, एवं निर्ग्रन्थस्नातकावपि ८ । द्वारं ।
'लिंग'त्ति लिङ्गं द्विधा द्रव्यभावभेदात्, तत्रामी द्रव्यतः स्वलिङ्गे अन्यलिङ्गे गृहिलिङ्गे वा स्युः, भावतस्तु स्वलिङ्ग एव ९ । द्वारं ।
'सरिरे' त्ति पुलाकस्त्रिष्वौदारिकतैजसकार्मणेपु, बकुशप्रतिसेवनाकुशीलौ त्रिषु चतुर्षु वा, वैक्रियस्यापि तयोः संभवात् कषायकुशीलोऽप्येवं पञ्चसु च तस्याहारकेऽपि सम्भवात्, निर्ग्रन्थः स्नातकश्च पुलाकवत् १० । द्वारं ।
'खेत्त'त्ति 'क्षेत्रं' कर्मभूम्यादि, तत्र जन्म सद्भावं च प्रतीत्य पञ्चाप्यमी कर्मभूमामेव स्युः, यथासम्भवं च संहरण प्रतीत्य कर्मभूमावकर्मभूमौ वा ११ । द्वारं ।
‘कालोत्ति कालतः पञ्चापि पुलाकादयो जन्मतः सद्भावतश्चावसर्पिण्यां सुष्मदुष्ष्मादुष्प्मसुषमादुष्माभिधानेषु कालेषु स्युः, उत्सर्पिण्यां दुष्मसुषमासुषमदुष्मयोः, इदं च भरतैरावतदशके, विदेहपञ्चकेषु चतुर्थकालप्रतिभागे यथासम्भवं संहरणं प्रतीत्य यथोक्तादन्यत्रापि काले स्युः, प्रज्ञप्त्यभिप्रायस्त्वयं-जन्मतः सद्भावतश्च पुलाकोऽवसर्पिण्यां सुष्मदुष्षमदुष्पमसुषमाकाले च, न तु शेषेषु, उत्सर्पिण्यां जन्मतो दुष्षमायां दुष्प्मासुषमायां सुषमादुष्षमायां, सद्भावश्च दुष्ष्मासुषमायां सुषमादुष्ष्मायां चेति भरतैरावतयोः, महाविदेहे तु चतुर्थप्रतिभागे पञ्चापि सर्वदैव स्यु:, यथासम्भवं संहरणतो न कदाचिन्निषिध्यन्ते, नवरं तत्पुलाकस्य नास्ति,
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org