________________
उत्तराध्ययन-मूलसूत्रम्-२-१९/६५७ परिग्रहः-सत्सु स्वीकारस्तद्विवर्जनं, तथा सर्वे-निरवशेषा ये आरम्भाः-द्रव्योत्पादनव्यापारास्तत्परित्यागः, अनेन निराकासात्वमुक्तं निर्ममत्वंच, गम्यमानत्वाच्चस्य, सर्वत्र ममेति बुद्धिपरिहारः, अने पञ्चमहाव्रतदुष्करतोक्ता।
संनिधीयते नरकादिष्वनेनात्मेति संनिधिः-धृतादेरुचितकालातिक्रमेण स्थापनं स चासौ सञ्चयश्च संनिधिसञ्चयः स चैव वर्जयितव्य इत्येतत्सुदुष्करम्, अनेन षष्ठव्रतदुष्करत्वमुक्तं, दिवागृहीतदिवाभुक्तादिभङ्गचतुष्टयरूपत्वात्तस्य।
"छुहे'त्यादिना परीषहाभिधानम्, अत्र च 'दंशमशकवेदना' तद्भक्षणोत्थदुःखानुभवरूपा 'दुःखशय्या च' विषमोन्नतत्वादिना दुःखहेतुर्वसतिः, 'ताडना' करादिभिराहननं 'तर्जना' अंगुलिभ्रमणधूत्क्षेपादिरूपा वधश्च-लकुटादिप्रहारो बन्धश्च-मयूरबन्धादिस्तानेन परीषहौ वधबन्धपरीषहौ, 'याञ्चा' प्रार्थना चकारोऽनुक्ताशेषपरीषहसमुच्चयार्थः, दुःखशब्दश्चेह क्षुद्दुःखमित्यादि प्रत्येकं योजनीयः, इह चबन्धताडने वधपरीषहेऽन्तर्भवतः, तर्जना आक्रोशे, भिक्षाचर्या च याञ्चयां, भेदोपादानं च व्युत्पत्त्यर्थमिति भावनीयं, कपोताः-पक्षिविशेषास्तषामियंकापोती येयं वृत्तिः-निर्वहणोपायः, यथा हि ते नित्यशङ्किताः कणकीटकादिग्रहणे प्रवर्तन्ते, एवं भिक्षुरप्येषणादोषशङ्कयेव भिक्षादौ प्रवर्तते, सा च दुरनुचरत्वेन दारयति कातरमनांसीति दारुणेत्युत्तरेण योगः, अभिधेयवशाच्च लिङ्गविपरिणामः, उपलक्षणं चैतत्समस्तोत्तरगुणानामिति, यच्चेह ब्रह्मव्रतस्य पुनर्दुर्द्धरत्वाभिधानं तदस्यातिदुष्करत्वख्यापनार्थम्।
उपसंहारमाह-सुखं-सातं तस्योचितो-योग्यः सुखोचितः 'सुकुमारः' अकठिनदेहः 'सुमज्जितः' सुष्ठुस्त्रपितः, सकलनेपथ्योपलक्षणं चैतत्, इह च सुमज्जितत्वं सुकुमारत्वे हेतुः, उभयं चैतत्सुखोचितत्वे, अतश्च 'न हुसि'त्ति नैव असि-भवसि 'प्रभुः' समर्थः 'श्रामण्यम्' अपन्तरोदितगुणरूपम् 'अनुपालेउ'न्ति अनुपालयितुम्, इह च सुखोचितत्वाभिधानमनीदृशो हीदृशं दुःखमपि न दुःखमिति मन्यते । ___ पुनरप्रभुत्वमेवोदाहरणैः समर्थयितुमाह-'अविश्रामः' यत्रोद्धृते न विश्रम्यते' 'गुणानां' यतिगुणानां, 'तुः' पूरणे 'महाभरः' महासमूहो गुरुको लोहभार इव यो दुर्वहः स वोढव्य इति शेषः, त्वं तु सुखोचित्त इत्यतो न प्रभुरसीत्युत्तरत्रापि योजनीयम्॥ ___ आकाशे गङ्गाश्रोतोवद् दुस्तर इति योज्यते, लोकरूढ्य चैतदुक्तं, तथा 'प्रतिश्रोतोवत्' यथा प्रतीपं जलप्रवाहो 'दुस्तर:' दुःखेन तीर्यत इति, बाहुभ्यां 'सागरो चेव'त्ति, सागरवच्च दुस्तरो यः सः 'तरितव्यः' पारगमनायावगाहयितव्यः, कोऽसौ?, गुणाः-ज्ञानादयस्त उदधिरिव गुणोदधिः, कायवांमनोनियन्त्रणा चात्र दुष्करत्वे हेतुः, 'निरास्वाद:' नीरसो विषयगृद्धानां वैरस्यहेतुत्वात् ॥
'अही'त्यादि, अहिरिवैकोऽन्तो-निश्चयो यस्याः सा तथा, सा चासौ दृष्टिश्चैकान्तदृष्टिस्तयाअनन्याक्षिप्तया, अहिपक्षे दशा, अन्यत्र तु बुद्धयोपलक्षितम्, एकान्तदृष्टिकं वा चारित्रं दुश्चरं, विषयेभ्यो मनसो दुनिवारत्वादिति भावः, 'जवा लोहमया चेव'त्ति एवकारस्योपमार्थत्याद्यवा लोहमया इव चर्वयितव्याः, किमुक्तं भवति?-लोहमययवचर्वणवत्सुदुष्करं चारित्रम्॥
'अग्निशिखा' अग्निज्वाला 'दीप्ते' त्युज्जवला ज्वालाकराला वा, द्वितीयार्थे चात्र प्रथमा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org