________________
अध्ययनं - १९, [ नि. ४१७]
मू. ( ६५० )
मू. (६५१ )
मू. (६५२ )
मू. (६५३)
मू. ( ६५४ )
मू. (६५५ )
तह दुक्करं करेउ जे, तारुन्ने समणत्तणं ॥ जहा दुक्खं भरेउ जे, होइ वायस्स कुत्थलो । तहा दुक्खं करेडं जे, कीवेणं समणत्तणं ॥ जहा तुलाए तोलेडं, दुक्करं मंदरो गिरी । तहा निहुअनीसंकं, दुक्करं समणत्तणं ॥ जहा भुयाहिं तरिउ, दुक्करं रयणायरो | तहा अनुवसंतेणं, दुक्करं दमसायरो ॥ भुंज मानुस्सए भोए, पंचलक्खणए तुमं । भुत्तभोगी तओ जाया !, पच्छा धम्मं चरिस्ससि ॥
मू. (६५६ )
मू. (६५७)
वृ. सूत्रविशति: संगमैव, नवरं 'त'मिति बलश्रियं मृगापुत्रापरनामकं युवराजं 'बिति' ति ब्रूतः-अभिधत्तः ‘अम्मापियरो' त्ति अम्बापितरौ श्रामण्यं पुत्र ! दुश्चरं, यतस्तत्र 'गुणानां' श्रामण्योपकारकाणां शीलाङ्गरूपाणां सहस्राणि 'धारयितव्यानि' आत्मनि स्थापयितव्यानि, प्राक्तुशब्दस्यैवकारार्थस्येह सम्बन्धाद्धारयितव्यान्येष व्रतग्रहण इति गम्यते 'भिक्षुणा' भिक्षणशीलेन सता, पठ्यते च - 'भिक्खुणो' त्ति भिक्षोः सम्बन्धिनां गुणानामिति योगः ।
तथा 'समता' रागद्वेषाविधानतस्तुल्यता 'सर्वभूतेषु' समस्तजन्तुषु, उदासीनेष्विति गम्यते, 'शत्रुमित्रेषु वा' अपकार्युपकारिषु, 'जगति' लोके, अनेन सामायिकमुक्तं, तथा 'प्राणातिपातविरति:' प्रथमव्रतरूपा ‘जावज्जीव (वाय) 'त्ति यावज्जीवं 'दुष्करं' दुरनुचरमेतदिति शेषः ।
नित्यकालाप्रमत्तेनेत्यप्रमत्तग्रहणं निद्रादिप्रमादवशगो हि मृषाऽपि भाषेतेति, नित्यायुक्तेनसततोपयुक्तेन अनुपयुक्तस्यान्यथाऽपि भाषणसंभवाद्, एतच्च दुष्करं यच्चान्वयव्यतिरेकाभ्यामेकस्याप्यर्थस्याभिधानं तत्स्पष्टतार्थमदुष्टमेवेत्येवं सर्वत्र भावनीयम्, अनेन द्वितीयव्रतदुष्करत्वमभिहितम्। ‘दंतसोहणमादिस्स'त्ति, मकारोऽलाक्षणिकः, अपिशब्दस्य गम्यमानत्वात्, 'दन्तशोधनादेरपि' अतितुच्छस्यास्तामन्यस्य, तथाऽनवद्यैषणीयस्य दत्तस्यापीति गम्यते 'गिण्हण 'त्ति ग्रहणमिति तृतीयव्रतदुष्करत्वोक्तिः ।
'कामभोगरसन्नुन' त्ति कामभोगाः - उक्तरूपास्तेषां रसः - आस्वादः कामभोगारसः यद्वा रसा:- शृङ्गारादवस्ततः कामभोगाश्च रसाश्च कामभोगारसास्तज्ज्ञेन, तदज्ञस्य हि तदनवगमात्तद्विषयोऽभिलाष एव न भवेत् तथा च सुकरत्वमपि स्यादित्याशयेनैवमभिधानम्, अनेन चतुर्थव्रतदुष्करत्वमुक्तम्।
Jain Education International
आगासे गंगसोउ व्व, पडिसोउव्व दुत्तरो । बाहाहिं सागरो चेव, तरियव्वो य गुणोयही ।। वालुयाकवले चेव, निरस्साए उ संजमे असिधारागमनं चेव, दुक्करं चरिउं तवो ॥ अहिबेगतदिट्ठीए, चरित्ते पुत्त दुच्चरे । जवा लोहमया चेव, चावेयव्वा सुदुक्करं ॥ जहा अग्गिसिहा दित्ता, पाउं होइ सुदुक्करं ।
For Private & Personal Use Only
२९
www.jainelibrary.org