SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ २४ उत्तराध्ययन-मूलसूत्रम्-२-१९/६१६ वृ. 'नन्दने' लक्षणोपेततया समृद्धिजनके 'सः' मृगापुत्रः 'तुः' वाक्यान्तरोपन्यासार्थः प्रासादे 'क्रीडति' बिलसति 'सह' समं 'स्त्रीभिः' प्रमदाभिः, क इव?- 'देवः' सुरः 'दोगुंदगो चेव'त्ति 'च:' पूरणे दोगुन्दग इव, दोगुन्दगाश्च त्रायस्त्रिंशाः, तथा च वृद्धा:-"त्रायस्त्रिंशा देवा नित्यं भोगपरायणा दोगुंदुगा इति भण्णंति", 'नित्यं' सदा 'मुदितमानसः' हष्टचित्तः ।। मू. (६१७) मणिरयणकुट्टिमतले, पासायालोअणे ठिओ। आलोएइ नगरस्स, चउक्कतियचच्चरे।। वृ.स चैवं क्रीडन् कदाचिन्मणयश्च-विशिष्टमाहात्म्यश्चान्द्रकान्तादयो रत्नानि च-गोमेयकादीनि मणिरत्नानि तैरुपलक्षितं कुट्टिमतलं यस्मिन्नसौ मणिरत्नकुट्टिमतलः, गमकत्वाद्बहुव्रीहिः, तस्मिन्, आलोक्यन्ते दिशोऽस्मिन् स्थितैरित्यालोकनं प्रासादे प्रासादस्य वाऽऽलोकनं प्रासादलोकनं तस्मिन्-सर्वोपरिवर्तिचतुरिकारूपे गवाक्षे वा स्थितः-उपविष्टः 'आलोकते' कुतूहलतः पश्यति, कानि?-'नगरस्य' तस्यैव सुग्रीवनाम्नः सम्बन्धीनि 'चतुष्कत्रिकचत्वराणि' प्रतीतान्येवेति सूत्रचतुष्टयार्थः ॥ ततः किमित्याहमू.(६१८) अह तत्थ अइच्छंतं, पासई समणसंजयं। तवनियमसंजमधर, सीलड्ढुंगुणआगरं। मू. (६१९) तं पेहई मियापुत्ते, दिट्ठीए अनिमिसाइ उ। कहिं मन्नेरिसंरूवं, दिट्ठपुव्वं मए पुरा?॥ मू.(६२०) साहुस्स दरिसणे तस्स, अज्झवसाणंमि सोहणे। मोहं गयस्स संतस्स, जाईसरणं समुप्पन्न । मू.(६२१) देवलोगचुओ संतो, मानुसंभवमागओ। सन्निनाणसमुप्पन्ने, जाइं सरइ पुराणयं॥ [प्र.] मू. (६२२) जाईसरणे समुप्पन्ने, मियापुत्ते महिड्डिए। सरइ पोराणिअंजाई, सामन्नं च पुराकयं । वृ.'अथ' अनन्तरं तत्र' इति तेषु चतुष्कत्रिकचत्वरेषु अतिच्छंत'न्ति अतिक्रामन्तं पश्यति श्रमणसंयतमिति श्रमणस्य शाक्यादेरपि सम्भवात्तद्यवच्छेद्दार्थं संयतग्रहणं, तपश्च-अनशनादि नियमश्च-द्रव्याद्यभिग्रहात्मक: संयमश्च-उक्तरूपस्तान्, धारयति तपोनियमसंयमधरस्तम्, अत एवशीलम्-अष्टादशशीलाङ्गसहस्ररूपं तेनाढ्यं-परिपूर्णशीलाढ्यं, तत एव च गुणानां, ज्ञानादीनामाकर इव गुणाकरतं ॥ ___ 'तमि'ति श्रमणसंयतं 'पेहइ'त्ति पश्यति 'मृगापुत्रः' युवराजः 'दृष्टवा' दृशा 'अनमिसाइ उ'त्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेषयैव, क्व 'मन्ये' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्-अवलोकितं मया 'पुरा' इति पूर्वजन्मनि?, शेषं प्रतीतमेव, नवरम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे 'शोभने' प्रधाने क्षायोपशमिकभाववर्तिनीतियावत् 'मोह' क्वेदं मया दृष्टं कवेदमित्यतिचिन्तातश्चित्तसङ्कट्टजमूर्छात्मकं 'गतस्य' प्राप्तस्य सतः ।। तथा 'सरति'त्ति स्मरति पौराणिकी 'जाति' जन्म श्रामण्यं च' श्रमणभावं पुराकृतं' जन्मान्तानुष्ठितमिति सूत्रचतुष्टयार्थः । एतदेवातिस्पष्टताहेतोरनुगमदितुमाह नियुक्तिकृत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy