SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २ अध्ययनं-१८,[नि.४०५] 'इतिः' परिसमाप्तौ, ब्रवीमीति पूर्ववत्, नयाश्च ।। अध्ययन - १८ समाप्तम् मुनि दीपरत्नसागरेण संशोधितं सम्पादितं उत्तराध्ययनसूत्रे __ अष्टादशमध्ययनं सनियुक्तिः सटीकं समाप्तम् (अध्ययनं १९ मृगापुत्रीयम् । वृ.व्याख्यातमष्टादशमध्ययनम्, अधुनैकोनविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने भोगाद्धित्याग उक्तः, तस्माच्च श्रामण्यमुपजायते, तच्चाप्रतिकर्मतया प्रशस्यतरं भवतीत्यप्रतिकर्मतोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम्, अस्य तु चतुरनुयोगद्वारचर्चा प्राग्वद्यावन्नामनिष्पन्ननिक्षेपे मृगापुत्रीयमिति नामातो मृगायाः पुत्रस्य च निक्षेपमाह नियुक्तिकृत् नि.[४०६] निक्खेवो अमिआए चउक्कओ दुविहो० ।। नि.[४०७] जाणग मविय सरीरे० ॥ नि.[ ४०८] मिअआउनामगोयं वेयंतो भावओ मिओ होइ। एमेव य पुत्तस्सवि चउक्कओ होइ निक्खेवो ॥ वृ.गाथात्रयं प्राग्वत्, नवरं मृगाभिलापन नेयम्॥ नामनिरुक्तिमाहनि.[ ४०९] मिगदेवीपुत्ताओ बलसिरिनामा समुट्ठियं जम्हा। तम्हा मिगपुत्तिज्जं अज्झयणं होइ नायव्वं ॥ वृ.मृगा-नाम्ना देवी-अग्रमहिषी तस्याः पुत्रः-सुतो मृगादेवीपुत्रस्तस्माद्बलश्रीनाम्नः 'समुत्थितं' समुत्पन्नं यस्मात्तस्मान्मृगापुत्रीयं-मृगापुत्रीयनामकं मृगाशब्देन मृगादेव्युक्तेरध्ययनमिदमिति शेषः, भवति 'ज्ञातव्यम्' अवबोद्धव्यमिति गाथार्थः ।। गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रालापकनिष्पन्ननिक्षेपस्यावसरः, स च सूत्रे सति भवति, अतः सूत्रानुगमे सूत्रमुच्चारणीयं, मू. (६१४) सुग्गीवे नयरे रम्मे, काननुज्जानसोहिए। राया बलभद्दत्ति, मिया तस्सग्गमाहिसी॥ वृ. 'सुग्रीवे' सुग्रीवनाम्नि नगरे 'रम्ये' रमणीये काननैः-बृहद्वृक्षाश्रयैर्वनैरुद्यानैः-आरामैः . क्रीडावनैर्वा शोभिते-राजिते क़ाननोद्यानशोभिते 'राजा' नृपो बलभद्र इति नाम्नेति शेषः, 'मृगा' मृगानाम्नी 'तस्य' इति बलभद्रस्य राज्ञः 'अग्गमहिसि'त्ति अग्रमहिषी' प्रधानपत्नी।। मू.(६१५) तेसिं पुत्ते बलसिरी, मियापुत्तत्ति विस्सुए। अम्मापिऊहिं दइए, जुवराया दमीसरे। वृ. 'तयोः' राज्ञोः पुत्रः 'बल श्रीः' बलश्रीनामा मातापितृविहितनाम्ना लोके च मृगापुत्र इति 'विश्रुतः' विख्यातः, 'अम्मापिऊणं'ति अम्मा(म्बा)पित्रोः 'दयितः' वल्लभः 'युवराजः' कृतयौवराज्याभिषेको दमिन:-उद्धतदमनशीलास्ते च राजानस्तेषामीश्वरः-प्रभुर्दमीश्वरः, यद्वा दमिनः-उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः, भाविकालापेक्षं चैतत् । मू.(६१६) नंदने सो उ पासाए, कीलए सह इत्थिहिं। देवो दोगुंदगो चेव, निच्चं मुइयमानसो। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003333
Book TitleAgam Suttani Satikam Part 29 Uttaradhyayanaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages316
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy